________________
६५
गुणाः । मानव्यवहाराऽसाधारणं कारणं परिमाणम् । परापरव्यवहारासाधीरणकारणे परत्वापरत्वे । दूरस्थे समीपस्थे च दैशिकपरत्वापरत्वे । ज्येष्ठे कनिष्ठे च कालिकपरत्वापरत्वे । आद्यपतनाऽसमवायि गुरुत्वम् । आपस्यन्द- 1 नाऽसमवायिकारणं द्रवत्वं । तच्च सांसिद्धिकं जले, नैमित्तिकं पृथ्वीतेजसोः । चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । श्रोत्रग्राह्यो गुणः शब्दः । सर्वव्यवहार हेतु - गुणो बुद्धिः । समवायीति । यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । कार्यैकार्थ–कारणैकार्थाऽन्यतरप्रत्यासत्या समवायिकारणे प्रत्यासन्नं ज्ञानादि भिन्नं कारणमसमवायिकारणम् । तदुभयभिन्नं निमित्तकारणम् । संशयेति । एकस्मिन् धर्मिणि विरुद्धनानाधर्मावगाहिज्ञानं संशयः । मिथ्याज्ञानं विपर्ययः । .. व्याप्यारोपेण व्यापकारोपस्तर्कः । चिकीर्षादिजनितः प्रयत्नः प्रवृत्तिः । द्विष्ट - साधनताज्ञानजनितो यत्नो निवृत्तिः । शरीरनिष्ठप्राणसञ्चारे कारणं जीवनयोनियत्नः । द्वितीयादिपतनाऽसमवायिकारणं वेगः । अनुभवजन्या स्मृतिहेतुर्भावना | अन्यथाकृतस्य पुनस्तदवस्थापादकः संस्कारः स्थितिस्थापकः । वायोर्नदेति । स्पर्शसङ्ख्यापरिमाणपृथक्त्व संयोगविभागपरत्वापरत्ववेगा वायोः । स्पर्शाद्यष्टकं रूपं वेगो द्रवत्वं च तेजसः । स्पर्शाद्यष्टकं रूपरसस्पर्शाः वेगो गुरुत्वद्रवत्वे स्नेहम्म जलस्य । · स्नेहत्यागेन गन्धस्वीकारेण चैत एव चतुर्दश पृथ्याम् । बुद्धिसुख'दुःखेच्छाद्वेषप्रयत्नाः सङ्खच । परिमाणपृथक्त्वसंयोगविभागाः भावना धर्माधम `च चतुर्दशैत आत्मनः । सख्यादिपञ्चकं कालस्य दिशश्च । सख्यादिपञ्चकं शब्दश्चाकाशस्य । सङ्ख्यादिपञ्चकं बुद्धीच्छा प्रयत्ना ईश्वरस्य । साचादिपञ्चकं परत्वापरत्ववेगाच मनस इति द्रव्याणां गुणव्यवस्था ॥
तन्मतं खण्डयति
तन, यथायथं पर्यायादिष्वन्तर्भावात् ॥७४॥
क्रमभाविनि सहभाविनि च पर्याय एवामीषां समावेशादिति ॥ इति श्री जैनतर्कसङ्ग्रहे पर्यायखण्डः ॥