________________
अथ धर्मनिरूपणान्तः खण्डः। .: ननु पूर्व गुरुतत्त्वलक्षणावसरे निरूपितं 'पञ्चमहाव्रतधारी गुरुः' इति । तत्र कानि महावतानीति वाच्यं ? अत्राह... महाव्रतानि पञ्च, प्राणातिपातमृपावादाऽदत्तादानमैथुनपरिग्रहविरतिरूपाणि ॥७५॥ '' प्राणातिपातो हिंसा । प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा । असदभिवानं अनृतं, तदेव मृषावादः । अदत्तादानं स्तेयं । मैथुनमब्रह्म । मूर्छा परिग्रहः । 'एभ्यः पञ्चभ्यो महादोषेभ्यो विरमणं-सर्वथा विरतिः-पञ्च महाव्रतानीति भावः । । महाफलानि चैतानि । अन्यत्राप्युक्तं-"अहिंसाप्रतिष्ठायां तत्सन्निधौ वैर'त्यागः। सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् । अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् । ब्रह्मचर्यप्रतिष्ठायामपूर्वीर्यलाभः । अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोध" इति ।।
प्राणातिपातादिदोषाणां प्रकारानाह
प्राणातिपातादयः प्रत्येकं मनोवचःकायभेदात् करणकारणानुमतिभेदाच्च नवधा । ते चास्रवाः । तद्विरतिः संवर ॥७६॥
प्राणातिपातस्य मनसा स्वयं करणं, अन्येन कारणं, अनुमोदनं चा यकृतस्येति त्रिधा । एवं वाचा कायेनापि त्रिधा त्रिधेति नवधा । एवमेव मृषावादादीना
मपि नव नव भेदा बोध्याः। ते च कर्मागमनद्वाररूपत्वादास्रवाः । कर्मागमनहेतुत्वा - . देव तेषां विरतिः कार्या, यतः कर्मबन्धो न भवेत् , पुराणं कर्म च हीयेत ॥
ननु ‘देवगुरुधर्मास्तत्त्व' मित्यत्र को धर्मः । इति चेदाह-- धर्मोऽहिंसा संयमस्तपः ॥७७॥
हिंसा पूर्वोक्ता, तस्या अभावोऽहिंसा । संयमनं - सर्वविधसावद्यव्यापाराद्विरमणं संयमः । ताप्यतेऽनेन कर्मेति तपः । एते त्रयोऽपि धर्मप्रकागः । एतेपामेव दुर्गतिप्रपतज्जन्तुधारणक्षमत्वात् ॥