________________
स च धर्मो द्विविध इति दर्शयतिगृहिधर्मः साधुधर्मश्चेति द्विधा ॥७८॥
गृहिणां देशतो विरतिः, साधूनां सर्वतः ॥७९॥ । गृहस्थानां संसारिजीवानां धर्म-आचारो गृहिधर्मः । साधूनां स साधुधर्मः । देशतः-स्थूलतः, सावद्ययोगाद्विरतिः । साधूनां च सर्वतः-सर्वसावद्ययोगाद्विरतिरूपो धर्म इत्यनयोर्भेदः ॥
ईदृशतत्त्वत्रयं ज्ञात्वा किं प्रयोजनं ? इत्याशङ्कायामाहतत्वश्रद्धानं. सम्यादर्शनं शमांद्यभिव्यङ्गयः शुभात्मपरिणामः ॥८॥
शुद्धतत्त्वानि ज्ञात्वा तानि श्रद्धेयानि-'इमान्येव तत्त्वानि सत्यं, पवित्रं तत्त्वं च, नातोऽन्यत् किञ्चित्तत्त्वम्' इति । एतच्च तत्त्वश्रद्धानं 'सम्यग्दर्शन'नाम्नोच्यते । सम्यग्दर्शनं च शम- संवेग-निर्वेदा-नुकम्पा-ऽऽस्तिक्यरूपैः पञ्चभिलक्षणैर्व्यङ्गयः शुभ आत्मपरिणामः ॥ ... तच्च सम्यग्दर्शनं आत्मपरिणामरूपं कथमवाप्यत इति तभेद निरूपण
द्वाराऽऽह... औपशमिकं क्षायोपशमिकं क्षायिकमिति तत्रिधा ॥८१॥
मिथ्यात्वमोहनीयस्य कर्मण उपशमाद् भावि सम्यग्दर्शनं औपशमिकमुच्यते । .. उपशमश्चोदयमागच्छतः कर्मणो विष्कम्भः-स्थिरीकरणं-उदयागमननिरोध इति
यावत् । क्षयोपशमः-उदयप्राप्तस्य मिथ्यात्वस्य क्षयः, उदयमागच्छतश्च तस्योपशमः, तेन निष्पन्नं क्षायोपशमिकनामकं सम्यक्त्वम् । क्षायिकं च दर्शनमोहत्रिकस्याऽनन्तानुबन्धिकषायचतुष्कस्य च येण निर्वृत्तात्मपरिणामरूपम् ॥
नन्वेतत्सम्यग्दर्शनमात्मनि किं करोतीति चेदाह
तत्प्रागवस्थो बहिरात्मा । तद्वान् अन्तरात्मा प्राक्कैवल्यात् । केवली परमात्मा ॥८॥