________________
तदिति । सम्यग्दर्शनावाप्तेः प्राग् जीवो बहिरात्मेत्युच्यते । सम्यक्त्व. प्राप्तिश्च तं 'अन्तरात्म' स्वरूपभाजनं करोति । अन्तरात्मा चाऽवश्यं केवलज्ञानप्रापको भविष्यत्येव । केवलावाप्त्यनन्तरं च स एवात्मा परमात्मा भवतीति ||
अत्रेदमवधाम-त्रिविधा ह्यात्मनोऽवस्था । प्रथमा बहिरात्मदशा, द्वितीया अन्तरात्मदशा, परमात्मदशा च तृतीया । तत्र यदाऽऽत्माऽनधिगतसम्यक्त्वः . सन् मिथ्यादर्शनमोहितो भवति, तद्वशाच्च भवं दुःखकारणमपि सुखकारणं सर्वस्वं च मन्यते, तत्रैव च स्वकीयं समग्रं सामर्थ्य व्ययति, तदा स आत्मनः शुद्ध स्वरूपाद् बहिर्भूतः सन् बहिरात्मदशां भजते । एतस्यामात्मनः शुद्धस्वरूपमतीवाऽऽवृतं भवति । यदा तु स एवात्मा प्रबलपुण्यपुरुषार्थयोगतोऽल्पीकृतमोहः सन्नपुनर्बन्धकभावमासाद्य विहितग्रन्थिभेदः करणचतुष्टयक्रमेण सम्यक्त्वमवाप्नोति, तदा स भवं सर्वदुःखानां मूलकारणं मन्वानोऽहिंसासंयमादिरूपं धर्मानुष्ठानमेव परमसुखनिदानं बुध्यते, यथाशक्ति च तत्र व्यापिपर्त्यपि । तदैव च स स्वकीयात्मनः शुद्धस्वरूपसन्मुखमवस्थानादन्तरात्मदशां बिभर्ति । अस्यां दशायां यद्यपि नात्मनः पूर्णशुद्ध स्वरूपप्राकट्यं, कर्मणामघापि विधमानत्वात् । तथाप्यत्रात्मनः स्वरूपावारकाणि कर्माणि सुतरां शिथिलीभवन्ति अल्पीभवन्ति च । इयं च दशाऽऽत्मनः परमात्मदशायाः परमकारणम् ।
स चान्तरात्मा यदोत्तरोत्तरं स्वस्वरूपान्तर्मुखो भवति, तदा क्रमशः स सर्वाण्यपि कर्माण्यवधूय स्वकीयं यथार्थ परिपूर्ण निरुपाधिकं निरावरणं स्वरूपं समधिगच्छति । इयमेव च तस्य परमात्मदशा ॥ उक्तं च न्यायविशारदैायाचार्यैर्महामहोपाध्यायभगवद्भिरध्यात्मसारे
"कायादिबहिरात्मा, तदधिष्ठातान्तरात्मतामेति । गतनिःशेषोपाधिः परमात्मा कीर्तितस्तज्ज्ञैः ॥ विषयकषायावेशः तत्त्वाश्रद्धा गुणेषु च द्वेषः । आत्माऽज्ञानं च यदा, बाह्यात्मा स्यात्तदा व्यक्तः ।।