________________
तत्त्वश्रद्धा ज्ञानं, महाव्रतान्यप्रमादपरता च । मोहजयश्च यदा स्यात् , तदान्तरात्मा भवेद्वयक्तः ॥ ज्ञानं केवलसंज्ञं, योगनिरोधः समग्रकर्महतिः। सिद्धनिवासश्च यदा, परमात्मा स्यात्तदा व्यक्तः ॥" तत्रान्तरात्मा ध्याता । परमात्मा ध्येयः॥
अन्तरात्मना परमात्मा ध्यानेन ध्यातव्यः । परमात्मनो ध्येयत्वात् । ध्येयध्यानप्रभावाच्च ध्यातैव ध्येयो भवतीति ध्येयम् ॥
नन्वत्र किं ध्यानं ? इत्याहऐकायसंवित्तिानं । ध्येयकता समापत्तिः ॥८॥
ध्येयतत्त्वस्यैकाग्रभावेन संवेदनं ध्यानमित्यर्थः। 'सोऽहं' इतिरूपेण ध्येयेन सममैक्यं यदा स्यात्तदा तदेव ध्यानं परमप्रकर्षभावं बिभ्रत् समापत्तिसंज्ञां लभते ॥ .. . . इदं च ध्यानं कथं साध्यं ? ध्यानस्य च किं फलं ? इत्याह
• ज्ञानपूर्वककर्मयोगाद् ध्यानयोगः। ध्यानयोगान्मुक्तियोगः ॥८४॥ ... न केवलं ज्ञानयोगान्नवा केवलकर्मयोगाद्ध्यानयोगोऽपि तु ज्ञानयोगकर्मयोगमिश्रणादेव ध्यानयोगः साध्यः । ज्ञानपूर्विकायाः क्रियाया एव सर्वत्र कार्यसिद्धौ समर्थत्वात् । अन्यत्राप्युक्तं 'अभ्यासवैराग्याभ्यां च तनिरोध' इति । ध्यानयोगस्य फलं तु मुक्तिरेव । एवं च परमानन्दमय-शुद्धात्मस्वरूपात्मकमोक्षप्राप्तेः कारणत्वेन ध्यानयोगः सदा सुतरां सेव्य इति भावः ॥ इति श्रीजैनतर्कसङ्ग्रहे धर्मनिरूपणान्तः खण्डः ॥
इति श्रीजैनतर्कसङ्ग्रहः ॥