SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ अथ प्रशस्तिः ॥ श्रीमद्वीरजिनो जीयात् , सल्लब्धिगौतमः प्रभुः । यद्वचःसुधया सिक्ता विबुधा अमराः सदा ॥१॥ साम्राज्यं यस्य प्रौढप्रकटमहिमसज्ज्ञानकर्मप्रधान, स्याद्वादाध्यात्मरम्या मितिनयविशदा शुद्धभावा च वाणी । सोऽयं प्रोद्दामधामा परमगुणनिधिः सर्वतन्त्रः स्वतन्त्रः, स्वप्ने वा जागरे वा शरणमनुदिनं नेमिस रिर्ममास्तु ॥२॥ श्री तपागच्छराजस्य तस्य पट्टनभोमणिः । विजयोदयसूरीशः तस्य पट्टभृता मया ॥३॥ गुप्त्यष्टाकेन्दु (१९८३) वर्षे श्री-वीरकैवल्यवांसरे । सूरिणा नन्दनेनायं निर्मितस्तर्कसङ्ग्रहः ॥४॥ इति श्री सर्वतन्त्रस्वन्त्र शासनसम्राट् सूरिचक्रचक्रवर्ति जगद्गुरु श्रीप्रज्ञप्त्यादिसकलयोगोद्वहनसूरिमन्त्रसमाराधनपूर्वकप्राप्त रिपद विद्यापीठादिप्रस्थानपञ्चकसमाराधक श्रीशत्रुञ्जयादिमहापवित्रतीर्थसंरक्षणपरा यणग्रथितन्यायव्याकरणाद्यनेकग्रन्थसन्दर्भ तपागच्छाधिराज भट्टारकाचार्यवर्य श्रीमद्विजयनेमिसूरिभगवत्पट्टालङ्कार सिद्धान्तवाचस्पति न्यायविशारद आचार्य श्रीविजयोदयसूरिपट्टालङ्कार न्यायवाचस्पति शास्त्र विशारद सिद्धान्तमार्तण्ड कविरत्नाचार्य श्रीविजयनन्दनसरिणा विरचितः . श्रीजैनतर्कसङ्ग्रहः ॥ श्रीः॥ (टिप्पण्यां प्रशस्तिः) श्रीमतां सूरिसम्राजां पूज्यानां नेमिसूरिणाम् । पढ़े पूज्या अभूवन् श्री–विज्ञानाभिधसूरयः ॥ १ ॥
SR No.002251
Book TitleJain Tark Sangraha Jain Muktavali cha
Original Sutra AuthorN/A
AuthorVijaynandansuri
PublisherGodi Parshwanath Jain Temple Trust
Publication Year1982
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy