________________
. प्रमाणेति । वस्तुमात्रमनन्तधर्मात्मकं, तादृशस्य च तस्य परिच्छेदः प्रमाणेन कृतः । नयस्तु तस्यैवाऽनन्तधर्मात्मकवस्तुनोऽनन्तधर्माणां मध्यत एकधर्म गृह्णाति, तदितरधर्मांश्च न तिरस्करोति,-तिरस्कारे तु दुर्नयत्वापत्तेः-तादृशो योऽध्यवसायः सः । नैगमः सामान्यविशेषवादी । सङ्ग्रहः सामान्यमात्रवादी । व्यवहारो विशेषवादी। ऋजुसूत्रस्तु वर्तमानक्षणिकपदार्थवादी । शब्दस्तु लिङ्गकारकादिभेदेनाऽर्थभेदवादी। पर्यायभेदे नार्थभेदवादी समभिरूढः । तत्तच्छब्दवाच्यक्रियापरिणतवस्त्वेव मन्यत एवम्भूत इति संक्षेपः ॥
ननु प्रमाणान्नयस्य को भेदः ? इत्याहप्रमाणैकदेशत्वाच्चैषां ततो भेदः ॥६५॥
प्रमाणप्ररूपितानन्तधर्मात्मकवस्तुन एवैकदेशाभिधायिनो नयाः । ततश्च नया एकदेशमभिदधति पदार्थस्य, प्रमाणं च सम्पूर्णमेव वस्त्वभिदधातीति द्वयोर्भेदः॥ . ननूपमानमपि स्वतन्त्रं प्रमाणमस्ति, कथं तदत्र नोक्तमत आह
- अत्र संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिस्तत्करणं सादृश्यज्ञानमुपमान मिति तु प्रत्यभिज्ञानान्तर्भावादेव न पृथगिति ॥६६॥
- कस्यचिन्मनसि शङ्का जाता ‘कीदृग्गवय ?' इति । तदनन्तरं स केन-. चिदारण्यकेनोक्त: 'यथा गौस्तथा गवयः, गोसदृशो वा गवयपदवाच्यः' इति । ततश्च स जनः कदाचिदरण्यं प्रविष्टस्तत्र च तेन गोसदृशः पदार्थो दृष्टस्तदा गोसादृश्यदर्शनं जायते, तदेवोपमितौ करणम् । ततश्च स आरण्यकोक्तं स्मरति 'गोसदृशो गवयपदवाच्य' इति । एतच्च स्मरणमुपमितौ व्यापारः । तदनन्तरं यद् 'गवयो गवयपदवाच्च' इति ज्ञानं भवति तदुपमितिरिति । एवं च कथमुपमानं न स्वतन्त्रं प्रमाणम् ? अत्राह-प्रत्यभिज्ञानेति । यदि सादृश्यज्ञानार्थ उपमानं, तदा वैसदृश्यज्ञानार्थमपि स्वतन्त्रं प्रमाणं किमप्यभ्युपगन्तव्यं । न च तथाऽभ्यु