________________
पगम्यते । अत एवोपमानमपि न प्रत्यभिज्ञानात्पृथगिति भावः । स एवायं जिनदत्तः इतिवद् गोसदृशो गवयपदवाच्य इत्यस्यापि प्रत्यभिज्ञानाकारत्वात् ॥
इति श्रीजैनतर्कसङ्ग्रहे द्रव्यखण्डे परोक्षखण्डः ॥
. उक्तं जीवस्वरूपमथ पुद्गलमाह- ननु पूर्वमुक्तं 'वण्णगंधरसा फासा पुग्गलाणं तु लक्खणं', 'रूपिणः पुद्गला' इत्यादि, तत्र के कतिविधाश्च वर्णगन्धरसस्पर्शा इति वक्तव्यं, अत आह-. -कृष्णनीलरोहितपीतशुक्ला वर्णाः । तिक्तकदुकषायाम्लमधुरा रसाः। पुरभ्यसुरभी गन्धौ । शीतोष्णस्निग्धरूक्षगुरुलघुकर्कशमृदवः स्पर्शाः। याऽऽतपोधोतशन्दादयः पुद्गलपरिणामा एव ॥६८॥ । प्रतिपुद्गलं एको वर्ण एको रस एको गन्धः स्पर्शद्वयं चास्त्येवेति । छाया द्विविधा-तद्वर्णविकारामिका यथा दर्पणादिस्वच्छपदार्थेष्वस्मच्छाया। प्रतिबिम्बात्मिका चास्माकं प्रतिच्छाया याऽऽतपादिषु प्रकाशादिषु च दृग्गोचरा भवति । सा यदि पोद्गलिकी न स्याद् ढग्गोचराऽपि न स्यादिति । आतपः सूर्यप्रकाशात्मकः, उद्योतश्चन्द्रादिप्रकाशः, तावपि पौद्गलिको । शब्दोऽपि पौदक्षिक एव । अधुनातनवैज्ञानिकैः शब्दस्य रेकोर्डयन्त्रादिकयन्त्रेषु सङ्ग्रहः, केमेरायन्त्रद्वारा गृह्यमाणछविषु चास्मदादीनां छायायाः सङ्ग्रहः क्रियते, सोऽपि शब्द छाययोः पौद्गलिकत्वसाधनायालमिति ॥
पुद्गलमैदानाह
स्कन्धदेशप्रदेशपरमाणुभेदाच्च पुद्गलश्चतुर्दा । तत्र परमाणुरप्रदेशः ॥६९॥
स्कन्धादिस्वरूपं पूर्व धर्मादिनिरूपणावसर उक्तमेव । परमाणुरिति । सुतीक्ष्णेनापि शस्त्रेण यं छेत्तुं भेत्तु च नैव कदापि शक्यते स परमाणुः ।