________________
अवधारणं चात्र भङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपात्तम् । इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्ज्येत । प्रतिनियतस्वार्थाऽनभिधानात् । तथाप्यस्त्येव कुम्भ इत्येतावन्मात्रीपादाने कुम्भस्य स्तम्भाधस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात् । तत्प्रतिपत्तये 'स्याद्' इति शब्दः प्रयुज्यते । स्यात्-कथञ्चित् स्वद्रव्यादिभिरेवायमस्ति न परद्रव्यादिभिरपीत्यर्थः ॥६२॥
अत्र भङ्गानां सप्तत्वमेव कथं ? कथं नाधिक्यं ? अत्रोच्यते, इमे भङ्गा उत्तररूपाः । तानि चोत्तराणि सप्तैव, तत्कारणप्रश्नानां सप्तत्वात् । प्रश्ना अपि सप्तैव, तन्मूलजिज्ञासायाः सप्तविधत्वात् । जिज्ञासा अपि सप्तैव, तत्कारणसन्देहानां सप्तधात्वादिति ॥
सप्तभङ्गीलक्षणमाह
एकत्र वस्तुनि एकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ॥६३॥
एकत्र-घटादिके वस्तुनि, एकैकधर्मपर्यनुयोगवशात्-घटोऽस्ति ? घटोनास्ति ? घटोऽस्त्येव नास्त्येव वा क्रमतः १ घटो युगपदस्त्येव नास्त्येव ? घटोऽस्ति युगपदस्ति नास्ति च ? घटो नास्ति युगपदस्ति नास्ति च ? घटः क्रमतोऽस्ति नास्ति युगपदस्ति नास्ति च ? एवं पर्यनुयोगवशात् , विधिनिषेधयो:अस्तित्वादिधर्माणां विधेर्निषेधस्य च कल्पनया । स्यादित्यव्ययमनेकान्तथोतकं, तदङ्कितो यः सप्तधा वाक्यप्रयोगः स सप्तभङ्गीति ॥
उक्तं प्रमाणस्वरूपमथ तदेकदेशात्मकनयस्वरूपमाह
प्रमाणपरिच्छिन्नस्यानन्तधर्मात्मकस्य वस्तुनः एकदेशग्राहिणस्तदितरांशाप्रतिक्षेपिणोऽध्यवसायविशेषा नयाः ॥ नैगमसंग्रहव्यवहार - सूत्रशब्दसमभिरूदैवम्भूताः सप्त ॥६४॥