________________
__ आगमप्रमाणं सप्तभङ्गयात्मकमिति सप्तभङ्गीमाह
सर्वत्रायं ध्वनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति ॥
सर्वत्र-प्रमाणवाक्ये, ध्वनिः शब्दः । सर्वोऽपि शब्दो विधायको निषेधकश्चापि । स्वार्थविधाने परार्थनिषेधे च कृते एव स्वार्थकथनं सुतरां भवतीति भावः । यद्यत् प्रमाणवाक्यं तत् सप्तभङ्ग्यात्मकमेव । अत एव यत्रैकादिरेव भङ्ग उक्त स्तत्रापि शेषभङ्गा आक्षेप्तव्याः। यत्र तु नैकोऽपि भङ्गस्तादृशं घटोऽयं .. पटोऽयमित्यादि लौकिकं वाक्यं वस्तुतो नैव प्रमाणम् ॥
सप्त भङ्गानेवाह स्वरूपतःस्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः । स्यानास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः । स्यादस्त्येव स्यानास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः । स्यादवक्तव्यमेवेति युगपद्विधिनिषेध. कल्पनया चतुर्थः । स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । स्यानास्त्येव स्यादवक्तव्य मेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः । स्यादस्त्येव स्या
भास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधि.. निषेधकल्पनया च सप्तमः॥
. स्वयमेवैषामर्थमाह__ तत्र स्यात्-कथञ्चित् स्वद्रव्यक्षेत्रकालभावरूपेणाऽस्त्येव सर्व कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण । तथाहि-कुम्भो द्रव्यतः पार्थिवत्वेनास्ति, नाऽऽप्यादिरूपत्वेन । क्षेत्रतः पाटलिपुत्रकत्वेन, न कान्यकुब्जादित्वेन । कालतः शैशिरत्वेन, न वासन्तिकादित्वेन । भावतः श्यामत्वेन, न रक्तादित्वेन । अन्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति ।