________________
आप्तवचनं यद्यपि नागमः, तथापि अर्थसंवेदनकारणत्वेन तत्र कारणे कार्योपचारात्तत्राप्यागमत्वमित्याह-आप्तवचनं तूपचारादिति ।
तत्र क आप्तः ? इत्याशङ्कामुत्तरयन्नाह
अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञातं चाभिधत्ते स आप्तः। स द्विधा-लौकिको लोकोत्तरश्च । आद्यो जनकादिद्वितीयस्तु तीर्थकृदादिः ॥५९॥
जनकादिरित्यत्राऽऽदिपदाव्यासादिः । तीर्थकृदादिरित्यत्राऽदिपदेन श्रुतकेवल्यादिर्ग्राह्यः ॥
आप्तवचनमित्यत्राप्तो दर्शितोऽधुना वचनमाहवर्णपदवाक्यात्मकं वचनम् ॥६०॥.. .. वर्णोऽकारादिः, स च पौद्गलिकः । वर्णसमूहः पदं, तच्च सङ्केतवत् पदम् । परस्परसापेक्षपदसमूहो वाक्यम् । तदात्मकं च वचनम् ॥
पदं शब्दः, स चार्थस्य वाचकः, अर्थश्च शब्दवाच्य इति द्वयोर्वाच्यवाचकभावः सम्बन्धः । पदं चार्थे- अर्थविशेषे शक्तं । पंदनिष्ठा शक्तिरेवार्थबोधिकेति यावत् । न त्वर्थबोधनाय कश्चित् सङ्केतः शक्तिनामकः पदे ईश्वराद् आनेय इत्याह
स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः । न त्वस्माच्छब्दादयर्थों बोद्धव्य इतीश्वरेच्छा शक्तिरिति । मानाभावात् ॥६१॥
स्वनिष्ठं यत्स्वाभाविकं सामर्थ्यमर्थबोधायालं, यश्चाऽस्मदादिभिर्विहितः सङ्केतः समयापरनामा, ताभ्यां-तयोः साहाय्येनार्थस्य बोधकारणं शब्द इति । केचित्त्वस्माच्छब्दादयमर्थो बोद्धव्य इत्यात्मिकामीश्वरस्येच्छामेव शक्तिं मन्यन्ते; तन्न, ईश्वर एव मानाभावात् । इश्वर एव नास्ति, तदा कस्य इच्छा शक्तित्वेन मन्तव्या ? अतोऽस्मदादीनामिच्छैव शक्तिरिति ध्येयम् ॥