________________
. परेस्विति । नैयायिकाः । वह्नयभाववति जलहदादौ प्रमेयत्वस्य वृत्तित्वात् प्रमेयत्वं साधारणम् । निश्चितसाध्यवान् सपक्षः, निश्चितसाध्याभाववांश्च विपक्षः । ततश्च नित्यत्ववति आकाशादौ नित्यत्वाभाववति च घटादौ शब्दत्वस्याऽसत्त्वादसाधारण्यम् । सर्वमिति । अत्र सर्वस्यैव पक्षत्वाद् दृष्टान्ताभावोऽतोऽनुपसंहारी हेतुः । शब्दो नित्यः कृतकत्वादित्यत्र साध्यं नित्यत्वं तद्व्यापकीभूतो योऽभावः स कृतकत्वाभावः, तत्प्रतियोगित्वं कृतकत्वे इति तद्विरुद्धम् । सत्प्रतिपक्षमुदाहरति-यथेति । अत्र यथा नित्यत्वसाधकं श्रावणत्वं, तथाऽनित्यत्वसाधकं कार्यत्वमप्यस्तीति श्रावणत्वं सत्प्रतिपक्षः । गगनारविन्दरूपस्याश्रयस्यैवा प्रसिद्धत्वेन अरविन्दत्वं आश्रयासिद्धम् । स्वरूपासिद्धमुदाहरति शब्द इति । अत्र शब्दे चाक्षुषत्वं नास्तीति हेत्वभाववत्पक्षः स्वरूपासिद्धिरित्यात्मकस्वरूपासिद्धिसत्त्वात् चाक्षुषत्वं स्वरूपासिद्धम् । यत्र यत्र धूमस्तत्र तत्राईन्धनसंयोगस्य सत्त्वात्साध्यव्यापकता, यत्र वह्निस्तत्रायःपिण्डादावार्दैन्धनवत्त्वाभावात्साधनाsव्यापकता चार्टेन्धनसंयोगस्याऽतः स उपाधिः । तद्वांश्च वह्निमत्त्वात्मको हेतुरिति स सोपाधिकः । वतिरनुष्ण इति । अत्र वह्रावनुष्णत्वाभावः उष्णत्वात्मकः प्रमाणान्तरेण प्रत्यक्षादिना निश्चितोऽस्तीति द्रव्यत्वं हेतुर्बाधितः ॥
तत्खण्डयति
तन, सत्प्रतिपक्षबाधयोरतिरिक्तहेत्वाभासत्वे मानाभावात् ॥५७॥ '.. सत्प्रतिपक्षस्याऽसिद्धेऽन्तर्भावात् । तुल्यबलेन प्रतिपक्षहेतुना मौलहेतोर
न्यथानुपपत्तेः प्रमाणबाधितत्वादिति भावः । बाधश्च न स्वतन्त्रो दोषोऽपि तु पक्षाभास एव । एवमाश्रयासिद्धोऽपि पक्षाभास एव । स्वरूपासिद्धादयश्चाऽसिद्धा एवेति न पार्थक्यम् । अनुपसंहारी च न हेतुदोषः, पक्षैकदेशस्यापि दृष्टान्तत्वे बाधाऽभावादिति बोध्यम् ॥
अथाऽऽगमप्रमाणनिरूपणमारभतेआप्तवचनादाविर्भूतमर्थसंवेदनमागमः। आप्तवचनं तूपचारात् ॥५८॥