________________
यस्य -हेतोरन्यथानुपपत्तिः सन्दिह्यते-न निश्चीयते सोऽनैकान्तिकः । . द्वेधा इति । विपक्षो निश्चितसाध्याभाववान् । निर्णीता विपक्षे वृत्तिर्यस्य स निर्णीतविपक्षवृत्तिकः । सन्दिग्धा विपक्षे वृत्तिर्यस्य स सन्दिग्धविपक्षवृत्तिकः । यथाक्रममुदाहरति-शब्द इति । अत्र नित्यत्वाभाववान् घटादिरनित्यः, तत्रापि प्रमेयत्वस्य सत्त्वात्, नित्यत्वं विनापि प्रमेयत्वोपपत्तिसद्भावादयमनैकान्तिकः ।.. विवादेति । अत्राऽसर्वज्ञत्वं साध्यं, तदभाववान् सर्वज्ञो विपक्षः, तत्रापि वक्तृत्वं नैव स्यादिति न निर्णयः, किन्तु सन्देह'स्तत्रापि स्यादि'त्याकारः । तथा. च' .. वक्तृत्वस्य तत्र सत्त्वे तत् सन्दिग्धविपक्षवृत्तिकं, तच्च वक्तृत्वं असर्वज्ञत्वं विनाप्युपपन्नमतोऽनैकान्तिकमिति ॥
अत्र विषये नैयायिकमतं दूषयितु प्रदर्शयति
परे तु, सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः । साधारणाऽसाधारणाऽनुपसंहारिभेदादनैकान्तिकत्रिधा । तत्र साध्याभाववद्वृत्तिः साधारणो यथा पर्वतो वह्निमान् प्रमेयत्वात् । सपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणो यथा शब्दों नित्यः शब्दत्वात् । अन्धयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी यथा सर्वमभिधेयं प्रमेयत्वात् । साध्यव्यापकीभूताऽभावप्रतियोगी हेतुविरुद्धो यथा शब्दो नित्यः कृतकत्वात् । साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्षो यथा शब्दो नित्यः श्रावणत्वात्, शब्दोऽनित्यः कार्यत्वात् । असिद्धस्त्रिविधःआश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्च । आद्यः गगनारविन्दं सुरभि अरविन्दत्वात् । द्वितीयः शब्दो गुणश्चाक्षुषत्वात् । सोपाधिको हेतुाप्यत्वासिद्धः। साध्यव्यापकत्वे सति साधनाम्पापकत्वमुपाधिः । यथा पर्वतो धूमवान् वह्निमचादित्यत्र आर्टेन्धनसंयोग उपाधिः, सोपाधिकत्याच वह्निमचं व्याप्यत्वासिद्धम् । यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितो यथा वह्निरनुष्णो द्रव्यत्वादिति ॥