________________
४३
षत्वमसिद्धमेव, शब्दस्य श्रावणत्वस्य प्रमाणप्रसिद्धत्वात् । तथा चात्र चाक्षुषत्वस्य हेतोरन्यथानुपपत्तिः प्रमाणेन नैव सिध्यतीति बोध्यम् । तरव इति । अयं चान्यतरासिद्धः, यतो मरणरहितत्वं तरूणां जैनस्य वादिनो मतेऽसिद्धम् । तथा च तस्याप्यन्यथानुपपत्तिः प्रमाणप्रतीता नास्तीति । अत्र यद्यपि स्वरूपासिद्धयादयोऽसिद्धिदोषप्रकाराः सम्भवन्ति, तथापि न तेषां पार्थक्यं, उभयासिद्धादिद्वयमध्य एवान्तर्भवनात् । तथाहि - चाक्षुषत्वाभाववत्त्वं शब्दस्योभयसिद्धमेव, चाक्षुषत्वं तूझ्याप्रसिद्धमेव । मरणरहितत्वाभाववत्त्वं अन्यतरवादिसिद्धमित्यतोऽन्यतराऽसिद्धमेव मरणरहितत्वमिति ध्येयम् ॥
-
विरुद्ध नामानं हेत्वाभासं निरूपयति
साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः । यथा नित्य एव पुरुषोऽनित्य एव वा प्रत्यभिज्ञानादिमत्त्वात् ॥ ५५ ॥
यो हेतुः साध्यं विना नाऽनुपपन्नः किन्तु साध्याभावं विनाऽनुपपन्नः स विरुद्ध इत्यर्थः । पुरुषो नित्यः प्रत्यभिज्ञानादिमत्त्वादिति नित्यत्ववादिना कृतः प्रयोगः, पुरुषोऽनित्यः प्रत्यभिज्ञानादिमत्त्वादिति चानित्यत्ववादिना कृतः प्रयोगः । उभयमतेऽपि हेतुर्विरुद्धः । यतो न पुरुष एकान्तेन नित्योऽनित्यो वा, ततश्च पुरुषस्य नित्यत्वं विना अनित्यत्वं विना च प्रत्यभिज्ञानादिमत्त्वं नैवानुपपन्नमपि तु साध्यविपर्ययं विना - नित्यत्वपक्षे तदभावं विना, अनित्यत्वपक्षे च तदभावं विना तदनुपपन्नं, पुरुषे नित्यत्वस्याऽनित्यत्वस्य प्रत्येकमेकान्तेनाऽभावादतोऽयं हेतुर्विरुद्धः ||
व्यभिचारापरनामानमनैकान्तिकमुदाहरति
यस्याऽन्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः । स द्वेधानिर्णीत विपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च । आद्यः - शब्दो नित्यः प्रमेयत्वात् । द्वितीयः - विवादापन्नः पुरुषः सर्वज्ञो न भवति वक्तुत्वात् ॥५६॥