________________
केवलान्वयि । इदं पुनध्येयम्-नैयायिकनये प्रमेयत्वमिव वाच्यत्वमपि केवलान्वयितया प्रतिपाद्यते । यत्र यत्र पदार्थत्वं तत्र तत्र वाच्यत्वमिति तेषां मतिः । एतञ्चिन्त्यम् । यतो जैननये त्वनन्तानां भावानां पदार्थत्वे सत्यपि न तत्र वाच्यत्वं, अनभिलाप्यत्वात् । 'पन्नवणिज्जा भावा, अणंतभागो उ अणभिलप्पाणं ।
. पनवणिजाणं पुण, अणंतभागो सुयनिबद्धोः ॥” इति-... शास्त्रवचनानुरोधात् तत्र न वाच्यत्वं, अत एव च न तस्य केवलान्वयित्वमिति ॥
व्यतिरेकेति । यत्र हेत्वभावः साध्याभावस्य व्यापको भवति तत्र व्यतिरेकव्याप्तिः । यथा 'पृथ्वी इतरभेदवती गन्धवत्त्वात्' । अत्र व्याप्तिः-'यत्र : गन्धाभावः तत्रेतरभेदाभाव' इत्याकारा । हेत्वभावोऽत्र व्यापकः साध्याभावस्यातोऽत्र भवति गन्धवत्वं केवलव्यतिरेकि ॥
हेतुवदाभासन्ते ये ते हेत्वाभासा दुष्टहेतयः । तान्निरूपयतिअसिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ॥५३॥
यस्याऽन्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः । स द्विविधः, उभयासिद्धोऽन्यतरासिद्धश्च । आद्यः-शब्दः परिणामी चाक्षुषत्वात् । द्वितीयः-तरवोऽचेतना मरणरहितत्वात् ॥५४॥'
त्रय इति । त्रय एव हेत्वाभासा नाधिका, अधिकानामत्रैव समावेशात् । असिद्धलक्षणमाह-यस्येति । यस्य-असिद्धिदोषग्रस्तस्य हेतोः, अन्यथानुपपत्तिः-हेतोरन्यथानुपपत्त्येकलक्षणत्वेनोक्तत्वात्सा, प्रमाणेन-प्रत्यक्षादिना, न प्रतीयते, अन्यथानुपपत्तिर्यस्य प्रमाणबाधितैव न त्वबाधितेत्यर्थः, सोऽसिद्ध इति ! असिद्धशब्दश्च सापेक्षोऽतः काञ्चिद्वयक्तिमपेक्षते । तथा च कस्यापेक्षया हेतुरसिद्ध इत्याकाङ्क्षायामुच्यते-उभयासिद्ध इति । उभयस्य वादिनः प्रतिवादिनश्चोभयस्यापि मतेऽसिद्धो-न सिद्ध उभयासिद्धः । वादिप्रतिवाद्यन्यतरस्य मतेन चाऽसिद्धोऽन्यतरासिद्धः । क्रमशो दृष्टान्तयति-आद्य इति । शब्द इति । अत्र वादिनो जैनस्य मते, प्रतिवादिनश्च नैयायिकादेर्मते शब्दस्य चाक्षु