________________
. परप्रतिपत्तये 'पर्वतो वह्निमान् धूमादि'त्याद्यात्मको यो वचनप्रयोगः स परार्थानुमानम् । साध्यस्याऽस्मदाद्यपेक्षया साध्यमानत्वेपि वस्तुतः धर्मिणि तत्सत्त्वमेवेत्यभिप्रायेणाह-साध्यविशिष्टो धर्मी पक्ष इति । तथोपपत्तिरप्यन्यथानुपपत्तेरेव प्रकारः । यस्य यस्मिन् सत्युपपत्तिस्तस्यैव तदभावेऽनुपपत्तेः । अत एव द्वयोरप्येकमेव दृष्टान्तमुक्तम् ॥ पञ्चावयववाक्यं नानिष्टं, तदेकान्तस्त्वनिष्ट इति प्रदर्शनार्थ पञ्चावयववाक्यस्वीकारस्य निराकरिष्यमाणत्वेऽपि तत्स्वीकार कादाचित्कमाह-क्वचिदिति । पञ्चावयवाकारस्त्वनन्तरमेव दर्शयिष्यते ॥
परेषां मतमस्माकं नानिष्टं किन्तु तेषां स्वमताग्रहस्तु नेष्ट एवेति प्रदर्शयितुं परेषां स्वमताग्रहं तुच्छतया प्रकटथितुमाह__परेषां तु, पञ्चावयववाक्यमेव परार्थानुमानम् । तथाहि, पर्वतो वहिमान, धूमवत्त्वात्, यो यो धूमवान् स स वहिमान्, यथा महानसं,
तथा चायं, तस्मात्तथा । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पश्चा: वयवाः । हेतु स्त्रिविधः-अन्वयव्यतिरेकी केवलान्वयी केवलव्यतिरेकी
च। तत्रान्वयेन व्यतिरेकेण च व्याप्तिमान् आद्यः। यथा वह्नौ . साध्ये धूमवचम् । अन्वयमात्रव्याप्तिको द्वितीयो यथा घटोऽभिधेयः
प्रमेयत्वात् । व्यतिरेकमात्रव्याप्तिकस्तृतीयो यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्वादिति ॥५२॥ ... परेषां-नैयायिकानाम् । पञ्चावयववाक्यमेव-नान्यथेति तेषामाग्रहः । 'पर्वतो वह्निमानिति प्रतिज्ञा । धूमवत्त्वादिति हेतुः । यो यो धूमवान् स स वह्निमान् यथा महानसमित्युदाहरणम् । तथा चायं-धूमवाँश्चायं इत्युपनयः । तस्मात्तथातस्नात्-धूमवत्त्वात्, तथा-वह्निमानिति निगमनम् । अन्वयव्यतिरेकीति । वह्निसत्त्वे धूमसत्त्वं अन्वयः, वह्नय भावे धूमाभावो व्यतिरेकः । तद्वांश्च धूम इति सोऽन्वयव्यतिरेकी। अन्वयमात्रेति । केवलान्वयित्वमत्यन्ताभावाऽप्रतियोगित्वम् । अभिषेयत्वप्रमेयत्ययोः सर्वत्र सत्त्वान्नास्त्यत्यन्ताभाव इति भवति प्रमेयत्वं