________________
सहचरा-ऽनुपलब्धिभेदात् । नास्त्यत्रेति । प्रतिषेध्याऽविरुद्धस्वभावाऽनुपलब्धिरूपहेतोरुदाहरणमिदम् । प्रतिषेध्यो घटः, तदविरुद्धः स्वभाव उपलब्धिः-साक्षात्कारः, तस्या अनुपलब्धेर्निश्चीयते नास्ति घट इति । वस्तुजातमिति । विधेयविरुद्धस्वभावाऽनुपलब्धिरयं हेतुः । विधेयं वस्तुजातस्याऽनेकान्तात्मकत्वं तद्विरुद्धः स्वभाव एकान्तात्मकत्वं, तस्याऽनुपलब्धेरनेकान्तात्मकत्वं निर्णीयत इति ॥
ननूक्तं भवता 'हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थ'. तत्र किमिदं नाम साध्यं ? इत्यत्राह
अप्रतीतमनिराकृतमभीप्सितं साध्यम् ॥५०॥
अप्रतीतं प्रमाणान्तरेणाऽनिश्चितं, तच्च शङ्कितं वा स्यात्, विपरीतं वा स्यात् , अनध्यवसितं वा स्यात् । अप्रतीतं सदपि केनापि प्रमाणेन बाधितं
चेन्न साध्यं भवितुमर्हतीत्यत आह-अनिराकृतं इति । अप्रतीतमपि अनिराकृतमपि चाऽभीप्सां साधयितुमिच्छां विना नैव साध्यतां भजतीत्याह-अभीप्सितंसिसाधयिषितं, तच्च प्रतिज्ञायां शब्दत उक्तमनुक्तं चापि साध्यत्वमर्हतीति विभावनीयम् । पर्वते वह्निः साध्यं धूमेन । न च तत्र वह्निरन्येन केनचिदपि प्रमाणेन निर्णीतः, अतः शङ्कितः सः । नापि तत्र वह्निः केनापि प्रमाणेन निरस्तो निषिद्धो वेत्यनिराकृतोऽपि सः । स चानुमातुः साधयितुं इष्टोऽप्यस्तीत्यभीप्सितोऽपि स इति भवति पर्वते धूमेन वह्निः साध्यमिति ॥
अभिहितं साङ्गं स्वार्थानुमानं, अथ परार्थानुमानस्वरूपमाह__पक्षहेतुवचनात्मकं परार्थानुमानम् । साध्यविशिष्टो धर्मी पक्षः । हेतुप्रयोगस्तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारः । यथा कृशानुमानयं पाकप्रदेशः सत्येव कृशानुमत्त्वे धूमवत्त्वस्योपपत्तेरसत्यनुपपत्तेर्वा । क्वचित् पश्चावयववाक्यप्रयोगोऽपि ॥५१॥