________________
four | यथा अस्त्यत्र गिरिनिकुब्जे धनञ्जयो धूमसमुपलम्भादिति । न विद्यतेऽस्य क्रोधाद्युपशान्तिर्वदनविकारादेरिति च । अनुपलब्धिर्द्विधाअविरुद्धानुपलब्धिर्विरुद्धानुपलब्धिश्च । यथा नास्त्यत्र भूतले कुम्भः, उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भात्, वस्तुजातमनेकान्तात्मकमेकान्तस्वभावानुपलम्भादिति च ॥ ४९ ॥
।
अन्यथा- - हेतुपदार्थस्य साध्यं विना याऽनुपपत्तिः साऽन्यथानुपपत्तिः, निश्चिता-असन्दिग्धा अन्यथानुपपत्तिर्निश्चितान्यथानुपपत्तिः । सैवैकं लक्षणं यस्य स निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः । अविरुद्धस्य - साध्याऽविरोधिन उपलब्धिरविरुद्धोपलब्धिः । स च विधिसाधको व्याप्य - कार्य - कारण - पूर्वचरो - तर चर-सहचरहेतुभेदात् षोढा । अस्त्यत्रेति । पर्वतो वह्निमान् धूमादिति दृष्टान्त 1 इत्यर्थः । अत्र साध्यं वह्निः, तदविरुद्धस्य धूमस्य गिरावुपलब्धिरस्तीति वह्निः सिध्यत्यतो घूमोऽविरुद्धोपलब्धिनामा हेतुरत्र, स चाऽविरुद्धव्याप्योपलब्ध्यात्मकः । विरुद्धस्य - सांध्याद् विरोधिन उपलब्धिर्विरुद्धोपलब्धिः । स च निषेधात्मक साध्यसाधकः सप्तधा । तथाहि - निषेध्यस्वभावविरुद्धोपलब्धि.निषेध्यविरुद्धव्याप्योपलब्धिर्निषेध्यविरुद्ध कार्योपलब्धिर्निषेध्यविरुद्धकारणोपलब्धि
•
निषेव्यविरुद्धपूर्व चरोपलब्धिर्निषेध्यविरुद्धोत्तरचरोपलब्धिर्निषेध्यविरुद्ध सहचरोपल - विश्वेति । एतेषां दृष्टान्ताः अन्येऽपि हेतुभेदाश्च तर्कभाषादितोsaसेयाः । न विद्यत इति । अत्र निषेध्यः क्रोधोपशमस्तद्विरुद्धस्य कार्यस्य वदनविकारात्मकस्योपलब्धेरिति हेतुः । तेन च क्रोधोपशमाभावः साध्यः । अनुपलब्धिरपीति । पूर्वदर्शिताऽविरुद्धोपलब्धि-विरुद्धोपलब्धिरूप हेतुद्रयं विधिरूपम् । एतच्चाऽविरुद्धानुपलब्धि - विरुद्धानुपलब्धिरूपं हेतुद्वयं प्रतिषेधरूपम् । तत्राऽविरुद्धानुपलब्धिर्विधिसाधकः, इतरश्च प्रतिषेधसाधकः । आद्यः सप्तधा - प्रतिषेध्याऽविरुद्धस्वभाव-व्यापक -कार्य- -कारण- - पूर्व चर - उत्तरचर - सहचरा - ऽनुपलव्धिभेदात्। द्वितीयश्च पञ्चभेदः - विधेयविरुद्ध कार्य-कारण- स्वभाव – व्यापक -