________________
ચૂંટ
दिना यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्ति गृहीतवान्, स कदाचित् पर्वतसमीपं गतः पर्वते धूमं पश्यन् व्याप्तिं स्मरति - यावान् कश्चिद्धूमः स सर्वो वह्नौ सत्येव भवतीति तदनन्तरं पर्वतो वह्निमानित ज्ञानमनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् । न तु मध्ये वह्निव्याप्यधूमवान् अयं पर्वत इतिज्ञानात्मकपरामर्शस्यावश्यकत्वम् ॥४७॥ -
स्वार्थानुमानं स्वानुमितिहेतुः । परार्थं तु परानुमितिकारणम् । हेत्विति । हेतुः-साध्यगमकः, तस्य ग्रहणं - साध्यधर्मिणि निश्चयः 'पर्वतो धूमवान्' इत्या याकारः । तदनन्तरं च सम्बन्धस्य - हेतुसाध्ययोर्व्याप्तेः स्मरणं भवति यंत्र धूमस्तत्र वह्नि' रित्याद्याकारं । ततोऽनुमितिः 'पर्वतो वह्निमान्नू' इत्याकारा | ततश्चेदं फलितं - हेतुग्रहणं सम्बन्धस्मरणं च कारणे यस्य साध्यविज्ञानस्य तत् स्वार्थानुमानमिति । व्याप्तिस्मरणकारणभूतंमनुभवं प्रदर्श्य हेतु ग्रहणव्य । सिस्मरणानुमितीनां क्रमं स्पष्टं प्रदर्शयति - तथा हीत्यादिना ॥
योगास्तु अनुमितौ व्याप्तिज्ञानं करणं, पक्षधर्मताज्ञानं सहकारि, लिङ्गपरामर्शश्व विशिष्टवैशिष्टयावगाहिज्ञानात्मको व्यापारः, तज्जनितं ज्ञानं चानुमितिरिति मन्यन्ते । तन्मतमयुक्तमित्यतस्तत्खण्डयति
एतेन परामर्शजन्यज्ञानमनुमितिः, लिङ्गपरामर्शोऽनुमानं, व्याप्तिविशिष्टपचधर्मताज्ञानं परामर्शः, व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मत्वमित्यपास्तम् ||४८ ||
इदमत्र रहस्यम् - ननु हेतुग्रहणमेव पक्षधर्मता, तदर्थं च कोऽयमाडम्बरः ? | वि परामर्श विनापि व्याप्तिस्मरणमेव साध्यसाधनायाऽलं, ततश्च कथमयमाडम्बरोsपि नानुचितः ? ||
हेतुलक्षणं हेतुभेदांश्चाह -
निश्चितान्यथानुपपत्त्येक लक्षणो हेतुः । स द्विधा उपलब्ध्यनुपलविभ्यां भिद्यमानत्वात् । तत्रोपलब्धिर्द्विधा - अविरुद्धोपलब्धिर्विरुद्धोपल