________________
. अनुभवस्मृतिहेतुकं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानं, यथा गोसदृशो गवयः, स एवायं जिनदत्त इत्यादि ॥४५॥
अनुभवः प्रमाणजनितं ज्ञानं, स्मृतिरुपयुक्ता, ते हेतुर्यस्य तत् । सङ्कलन प्रस्तुतपदार्थस्य विवक्षितधर्मान्विततया भानं, तदात्मा यस्य तत् सङ्कलनात्मकं । तस्य च गोत्वघटत्वादिकं तिर्यक्सामान्यं मृत्स्नादिरूपमूर्ध्वतासामान्यं च विषयः । एतच्च सामान्यद्वयं सदृशपरिणामबोधजनकं। एवं विसदृशपरिणामादिर्धर्मसमूहोऽप्यस्यैव गोचरः । यथा गोसदृश इति । अन्येषां मते गोसदृशो गवय इति प्रतीतिविषयकमुपमानं स्वतन्त्रं प्रमाणं, तन्न समीचीनं; तथा सति 'गोविसदृशोऽश्व' इंति प्रतीतिनियामकमन्यदपि प्रमाणमेष्टव्यं स्यात् । यद्यप्यनुयोगद्वारेषु उपमानस्यैव प्रमाणता स्वीकृता, तथाप्यत्र प्रत्यभिज्ञान एव तस्य समावेशनान्न विरोधः ॥
तर्कप्रमाणं निरूपयति.: उपलम्भानुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधनसम्बन्धाद्या
लम्बनं इदमस्मिन् सत्येव भवतीत्याद्याकारं संवेदनमूहापरनामा तर्कः। • यथा यावान् कश्चिद् धूमः स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसत्यसौ न भवत्येवेति ॥४६॥ . - उपलम्भः प्रमाणेन ग्रहणं, अनुपलम्भोऽग्रहणं, ताभ्यां सम्भवो यस्य तत् तथा । अन्वयव्यतिरेकाभ्यामुद्भूतमिति यावत् । त्रिकालीति । अतीतानागतवर्तमानकालविषयो यः साध्यसाधनयोः सम्बन्धः-अविनाभावात्मकः, तदादि आलम्बनं-विषयो यस्य तत् । अयमत्राशयः-यस्मिन् काले यस्मिन् देशे च धूमः स वहनेरविनाभावी । ततश्च व्याप्तिनिर्णयेऽयं तर्क उपयोगीति सिद्धम् ॥..
अनुमानप्रमाणमाह.... अनुमानं द्विधा-स्वार्थ परार्थ च । तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं सार्थम् । तथा हि-यः पूर्व भूयः सहचारदर्शना