________________
अथ द्रव्यखण्डे परोक्षखण्डः ॥ लक्षितं प्रत्यक्षप्रमाणमथ परोक्षं प्रपञ्चयति- .
अस्पष्टं परोक्षम् ॥४२॥ - स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत्पश्चप्रकारम् ॥४३॥...
प्रत्यक्षगतस्पष्टत्वविरोधि अस्पष्टत्वं, तद्वत् प्रमाणं परोक्षम् । ज्ञानावरणादिकर्मणां तथाविधक्षयोपशमान्मन्दमविशदं वाऽऽविर्भूतं ज्ञानमित्यर्थः । नैयायिकादीनां मते स्मृतिः प्रत्यभिज्ञानं तर्कश्च न स्वतन्त्रप्रमाणानि, अस्मन्मते तु तेषां स्वतन्त्रप्रमाणतेति बोध्यम् ॥
का स्मरणप्रमाणस्वरूपमाहॐ सत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं संवेदनं स्मरणं, यथा तत्तीर्थकरबिम्बमिति ॥४४॥ ..
संस्कारेति । अनुभवजनितसंस्कारस्य यः प्रबोधः-उद्बोधस्तेन सम्भूतं उत्पन्न । स्मरणं चानुभवेन विषयीकृतस्यैव भवति इत्यतं आह-अनुभूतार्थविषयम् । यथेति । तत्-पूर्वकाले दृष्टं यत्, तदिदं तीर्थकरबिम्बमस्तीति । येन पूर्व तीर्थकरबिम्बं दृष्टं अस्ति; न केवलं दृष्टमेव, अपि तु स्मृतं, प्रत्यभिज्ञातं, वितर्कितं, अनुमितं, श्रुतं वाऽपि, स पश्चात्काले कदाचित् तबिम्ब पुनः पश्यति, तदा भवति तस्य चित्ते स्मरणं पूर्वानुभवस्य 'तत्तीर्थकरबिम्ब'मितिस्वरूपमिति । केचितु, स्मृतेरनुभवसव्यपेक्षत्वात्, अनुभवविषय-विषयकत्वाच न सा प्रमाणमिति वदन्ति । तन्न, स्वोत्पत्तौ स्मृतेः संस्कारद्वाराऽनुभवसापेक्षत्वेऽपि स्वविषयपरिच्छेदे तस्याः स्वतन्त्रत्वादिति । अन्यथा अनुमानमप्यनुभूतविषयविषयकत्वेनाऽप्रमाणमापद्यतेत्यादिविस्तरस्तु तर्कभाषादितोऽवसेयः॥
प्रत्यभिज्ञानं प्रमाणयति