________________
३५
विषयीभूतद्रव्येण संयोगस्य शक्यत्वात् । द्रव्ययोरेव संयोग इति नियमाच्चेन्द्रियस्य विषयगतगुणादिप्रत्यक्षे न संयोगः, किन्तु तत्रेन्द्रियसंयुक्तसमवायः; इन्द्रियसंयुक्तं द्रव्यं तत्समवेतो गुणादिरिति कृत्वा । एवमेव इन्द्रियसंयुक्तद्रव्यसमवेतरूपादिगुणादिः, तत्र समवेता रूपत्वादिजातिस्तत्प्रत्यक्षे इन्द्रियसंयुक्तसमवेतसमवायः सन्निकर्षः । एते त्रयोऽपि चाक्षुष - स्पार्शनप्रत्यक्षे कारणम् । द्वितीय-तृतीयौ तु प्राणजे रासने च प्रत्यक्षे हेतुः । शब्दस्य श्रोत्रा - वच्छिन्ने आकाशे समवेतत्वाच्छब्द श्रावणप्रत्यक्षे श्रोत्रसमवायः सन्निकर्षः । शब्दसमवेतशब्दत्व प्रत्यक्षे च श्रोत्रसमवेतसमवायः सन्निकर्षः । अभावप्रत्यक्षइति । 'घटाभाववद्भूतल' मित्यत्र भूतलं विशेष्यं, तत्र घटाभावो विशेषणमिति विशेषणतैव सन्निकर्षोऽभावप्रत्यक्षजनकः । एकः पुनः सप्तमश्चतुष्टयसन्निकर्षोऽप्यस्ति । तदुक्तं केशव मिश्रेण - " घटगतपरिमाणादिग्रहे चतुष्टयसन्नि कर्पोऽप्यधिकं कारणमिष्यते । सत्यपि संयुक्तसमवाये तदभावे दूरे परि णामाद्यग्रहात् । चतुष्टयसन्निकर्षो यथा - इन्द्रियावयवैरर्थावयविनां, इन्द्रि - * यावयविनाऽर्थावयवानां, इन्द्रियावयवैरर्थावयवानां, अर्थावयविनामिन्द्रियावयविनां सन्निकर्ष इति " ॥
तदेतदखिलमालजालं वृथैवेत्यभिप्रायेणाह - सन्निकर्षस्यैवाऽप्रामाणिकत्वादिति । तस्याऽज्ञानतया जडत्वात् । न हि ज्ञानस्य करणं व्यापारो वा कदाचिद् जडत्वेन कुत्रापि दृष्टौ । ज्ञानस्य हि करणं सर्वदा चैतन्यमेव, व्यापारोऽपि चैतन्यरूप एव भवितुमर्हति । भवता च ज्ञानस्य करणमपीन्द्रियं जडं स्वीक्रियते, व्यापारोऽपि सन्निकर्षात्मको जड एवाऽभिप्रीयते । तत्कथं प्रमाणपदवीमारुहेदेतत् । तदुक्तं प्रमाणनयतत्वालोके - " न वै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नं, तस्याऽर्थान्तरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपत्तेः इति । यदि च जडस्यापि तस्य करणत्वं व्यापारत्वं च तदा घटादिपदार्थस्यापि कथं न तत्तेत्यलं प्रसङ्गेनेति ॥
91
इति श्री जैनतर्कसङ्ग्रहे द्रव्यखण्डे प्रत्यक्षखण्डः ॥