________________
३४
समग्र वस्तुविषयकत्वात्स कलम् । तच्च समस्तानां आवरणानां - ज्ञानावरणानां दर्शनावरणानां च; उपलक्षणं चैतत् ततश्च मोहनीयान्तराययोरपि क्षयमपेक्षते । उक्तकर्मचतुष्टयक्षय समनन्तरमेव केवलज्ञानं भवतीति भावः । निखिलेति । निखिला ये भावा द्रव्यगुणपर्यायाः, लोकोऽलोकश्च तान् साक्षात्क शीलमस्येति साक्षात्कारिस्वभावं तदिति । तच्चानन्तमप्रतिहतमचलं चेति ॥
केचिन्नैयायिकादय इन्द्रियजन्यं ज्ञानं प्रत्यक्षं तत्रेन्द्रियं करणं, इन्द्रियविषयसन्निकर्षश्व व्यापार इति मन्यन्ते, तत् खण्डयितुं तन्मतमुपन्यस्यति -
एतेन " इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं प्रत्यक्षं, तनिर्विकल्पकं सविकल्पकं चेति । पुनस्तद् घ्राणजादिभेदेन षड्विधं । संनिकर्षश्च द्रव्यप्रत्यक्षे संयोगः । द्रव्यसमवेतगुणकर्मजातिप्रत्यक्षे संयुक्तसमवायः । द्रव्यसमवेतसमवेतजातिप्रत्यक्षे संयुक्तसमवेतसमवायः । शब्दप्रत्यक्षे समवायः । शब्दसमवेत प्रत्यक्षे समवेतसमवायः । अभावप्रत्यक्षे विशेषणविशेष्यभाव" इति निरस्तम् । सन्निकर्षस्यैवाऽप्रामाणिकत्वात् ॥ ४१ ॥
एतेनेति । निरस्तमित्यनेनाऽन्वयः । इन्द्रियार्थेति । तथा चोक्तं तन्मते""इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षं"; "इन्द्रियं करणं मतम् । विषयेन्द्रियसम्बन्धो व्यापारः सोऽपि षड्विधः" इत्यादि । तन्मते - इन्द्रियस्य विषयेण समं यदा सम्बन्धः सन्नि - कर्षात्मको भवति, तदा इन्द्रियेण करणभूतेन विषयेन्द्रियसन्निकर्षरूपव्यापारद्वारा यज्ज्ञानं जन्यते तत्प्रत्यक्षम् । तच्च घटघटत्वयोर्वैशिष्टयाऽनवगाहि निर्विकल्पकम्। वैशिष्ट्यावगाहि तु सविकल्पकम् । निर्विकल्पक ज्ञाने इन्द्रियमेव कारणम् । इन्द्रियार्थसन्निकर्षस्तु सविकल्पके । घ्राणजादीति । घ्राणजं रासनं स्पार्शनं 'चाक्षुषं श्रत्र मानसं चेत्यर्थः । सन्निकर्षोऽपि षड्विधः । तमेवाह - सन्निकर्षश्चेति । तेषाम् सर्वेषामेवेन्द्रियाणां प्राप्यकारित्वेनेन्द्रियविषय सम्बन्धोऽवश्य मेष्टव्यः ।
"
स च क्वचित्साक्षात्संयोगात्मकः क्वचिच्च परम्परयेति न किञ्चित् । तत्र पृथ्यादिद्रव्यस्य प्रत्यक्षे जननीये संयोगः सन्निकर्षः, इन्द्रियस्यापि द्रव्यत्वात्तस्य