________________
धारणां दर्शयतिस एव दृढतमावस्थापन्नो धारणा ॥३७॥
सोऽपाय एव निश्चितवस्तुविषयेऽत्यन्तादस्वतः प्रमातुश्चित्ते कञ्चित् कालं, .. स्थिरीभवन् सन् 'धारणा' इत्युच्यते । यन्माहात्म्यात् प्रमातुश्चित्तं तत्पदार्थ. विषयकसंस्कारवासितं कालान्तरे च तत्पदार्थस्मरणसमर्थं भवति ॥
अथ पारमार्थिकप्रत्यक्षप्रकारावाहपारमार्थिक विकलं सकलं च ॥३८॥ विकलमपूर्ण, सकलं च पूर्णम् ॥ तत्र विकलभेदावाह
विकलमवधिमनःपर्यायभेदाद् द्विधा । अवधिज्ञानावरणकर्मक्षयोपशमसमुद्भवं भवगुणप्रत्ययं रूपिविषयकमाघम् । द्वितीयं संयमविशुद्धितदावरणक्षयोपशमसमुद्भवं मनोविषयकम् ॥३९॥ ____ विकलमिति । एकमवधिज्ञानमपरं च मनःपर्यायज्ञानमिति भावः। ज्ञानावरणं कर्म पञ्चभेदम् । मतिज्ञानावरण-श्रुतज्ञानावरणा-ऽवधिज्ञानावरणमनःपर्यायज्ञानावरण-केवलज्ञानावरणभेदात् । तन्मध्येऽवधिज्ञानावरणस्य यदा क्षयोपशमो भवति तदाऽवधिज्ञानमुत्पद्यते । क्षयोपशमश्च उदीर्णस्य-उदितस्य तत्कर्मणः क्षयः-नाशः, अनुदितस्य चोपशमः-उदयाभावः । तच्चावधिज्ञानं नारकदेवानां भवप्रत्ययम् । तेषां भव एव तज्ज्ञानोत्पत्तौ कारणम् । शेषाणां तु तत्संयमादिगुणप्रत्ययिकम् । तस्य च रूपी-मूर्तः पदार्थो विषयः । द्वितीयमिति । मनःपर्यायज्ञानमित्यर्थः । तच्च संयमस्य-चारित्रस्य विशुद्धिनिबन्धनं यस्य तत्तथा । पुनश्च तत् स्वावरणकर्मक्षयोपशमादाविर्भूतम् । तस्य च सार्धतृतीयद्वीपगतसंज्ञिपञ्चेन्द्रियाणां मनोद्रव्याणि विषय इति ॥
सकलमाह
सकलं समतावरणक्षयापेक्षं निखिलभावसाक्षात्कारिस्वरूपं केवलज्ञानम् ॥४०॥