________________
३२
विषय विषयसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाधमवान्तर सामान्याकार विशिष्टवस्तुग्रहणमवग्रहः ॥
विषयो घटपटादि द्रव्यं, विषयि - इन्द्रियं चक्षुरादि, तयोर्यः सन्निपातः - सम्बन्धः, स प्रथमं भवति । तदनन्तरं समुद्भूतं सत्तामात्रगोचरं यद् दर्शनं, ततो जातं, अवान्तरैः सत्ताऽपेक्षयाऽपररूपैर्घटत्वादिभिः सामान्यैर्विशिष्टं यद्वस्तु, तस्य ग्रहणं - बोधोऽवग्रहः । अवग्रहश्च व्यञ्जनावग्रह - अर्थावग्रहभेदाद्द्वेधा । तत्र विषयविषयिसम्बन्धात्मको व्यञ्जनावग्रहः । पदार्थस्याव्यक्तं भानं चाऽर्थावग्रहः । प्रायो योऽन्यैर्निर्विकल्पक प्रत्यक्षत्वेन स्वीक्रियते । यंत्र बोधप्रक्रियायां प्रथमं विषयविषयसन्निपातात्मको व्यञ्जनावग्रहः । ततोऽनाकारोपयोगात्मकं दर्शनं सन्मात्र गोचरम् । ततश्च घटत्वादिघटितघटादिपदार्थ-. स्याऽस्पष्टभानात्मकोऽर्थावग्रह इति क्रमः । चक्षुर्मनसोरप्राप्य कारित्वाच्छेषाणांमेव च प्राप्यकारित्वात् ॥ यद्यपि व्यञ्जनावग्रहस्य सम्बन्धात्मकतया न ज्ञानत्वं, तथापि अर्थावग्रहरूपज्ञानोपादानत्वेन तत्रापि ज्ञानत्वं, कारणे कार्योपचारादिति ॥ अर्थावग्रहाकारश्च ' इदं किञ्चित् ' इति रूप:, ' इदं द्रव्यं' इत्यादिरूपश्चेति ध्येयम् ॥
हां निरूपयति
गृहीतविशेषाकाङ्क्षणमीहा ॥
अवगृहीतस्य - अवग्रहेण विषयीकृतस्य घटादिपदार्थस्याऽयं किंरूपः ? मृद्घटः सुवर्णघटो वा ? यद्वा इदं किं ? घटः पटो वा ? इत्यादि रूपेणा का ङ्क्षणंन तु सन्देहः –ईहेति । अनेन घटेनैव भवितव्यं, अनेन सौवर्णेनैव भवितव्यं, इत्यादिरूपा वस्तु विशेष निर्णयपरा ईहा इति यावत् ॥
अपायं प्ररूपयति
ईहितविशेषनिर्णयोऽवायः ॥
ईहित: - ईहा विचारविषयो यो विशेषः - पदार्थविशेषः, तस्यैव निर्णयोऽवायः। यथा ‘अयं घट्ः’ ‘अयं सौवर्ण एव घटः' इत्यादि ॥