________________
... स्पष्टं प्रत्यक्षम् ॥३३॥
अनुमानप्रमाणादिपरोक्षप्रमाणापेक्षयाऽऽधिक्येन विशेषप्रतिभासनं स्पष्ट त्वम् । स्पष्टं विशदम् । ज्ञानावरणकर्मणो वीर्यान्तरायस्य च कर्मणः क्षयोपशमात् क्षयाद्वा विशदतयाऽऽविर्भूतं यत्तद् ज्ञानं प्रत्यक्षमित्यर्थः ।।
द्वैविध्यं तस्य व्युत्पादयति
तद् द्विधा-सांव्यवहारिकं पारमार्थिकं च । सांव्यवहारिकमिन्द्रियापेक्षम् । पारमार्थिकमुत्पत्तावात्ममात्रापेक्षम् ॥३४॥ ... सम्यक्-निर्बाधो व्यवहारः-प्रवृत्तिनिवृत्त्यात्मकः संव्यवहारः, स प्रयोजनमस्येति सांव्यवहारिकम् । तच्चाऽपारमार्थिकं, इन्द्रियाद्यपेक्षणात् । अवध्यादिरूपमिन्द्रियाघनपेक्षं तु पारमार्थिक, आत्ममात्रसंनिध्यपेक्षणादिति ॥
लौकिको व्यवहारः सांव्यवहारिकप्रत्यक्षेणैव प्रचलतीति तभेदानाह-- : तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिवन्धनं च। तत्राद्य स्पानिरासनघ्राणजचाक्षुषश्रावणभेदात् पञ्चधा । अन्त्यं मानसम् ॥३५॥ .. आद्य-सांव्यवहारिकम् । आद्य-इन्द्रियनिबन्धनम् । स्पर्शनेन्द्रियजन्यं प्रत्यक्षं स्पार्शनं, रसनेन्द्रियजन्यं रासनं, घ्राणेन्द्रियजन्यं घ्राणजं, चक्षुर्जन्यं चाक्षुष, श्रवणेन्द्रियजन्यं श्रावणमित्यर्थः । अनिन्द्रियं मनः । तज्जन्यं मानसं प्रत्यक्षमित्यर्थः । यद्यपि सर्वेन्द्रियजन्येषु प्रत्यक्षेषु मनोऽपेक्ष्यत एव, तथापि तत्र तस्य गौणत्वात् तत्तदिन्द्रियाणां प्रधानत्वाच्च प्रधानानुयायी व्यवहार इति ॥ . द्विविधमपि सांव्यवहारिक विभजते पुनश्चतुर्धातद्वयं अवग्रहहापायधारणाभेदादेकशश्चतुर्धा ॥३६॥ इन्द्रियनिबन्धनं सांव्यवहारिकं चतुर्भेदं-अवग्रह, ईहा, अपायो, धारणा चेति । एवमनिन्द्रियमपि ॥
तत्र किमेषां स्वरूपमित्याकाङ्क्षायामाह