________________
व्यभिचारि चैव, स्वस्मिन् स्वव्यभिचारासम्भवात् । प्रामाण्याप्रामाण्यव्यवस्था तु बाह्यार्थमपेक्ष्य व्यवस्थिता । बाह्यार्थस्याप्रमाणत्वे ज्ञानमप्यप्रमाणं, तत्प्रमाणत्वे तु ज्ञानमपि प्रमाणमेव । तदुभयमिति । प्रामाण्यमप्रामाण्यं चोभयमपि ज्ञाने विषयगतं गुणं दोषं चापेक्ष्यैवोत्पद्यते । प्रामाण्यस्याप्रामाण्यस्य च निश्चयस्तु अभ्यासदशापन्ने ज्ञाने स्वत एव भवति । अनभ्यासदशापन्नज्ञाने तु संवादकबाधकज्ञानापेक्षयैव भवतीति ध्येयम् । विस्तरार्थिना प्रमाणनयंतत्त्वा. लोकोऽवलोकनीय इति ॥
प्रमाणद्वैविध्यं व्युत्पादयतितद् द्विविध-प्रत्यक्षं च परोक्षं च ॥३१॥ केषाञ्चिन्मते द्विधा, त्रिधा, चतुर्दा, पञ्चधा, षड्ढा वा प्रमाणानि । तदुक्तम्चार्वाकोऽध्यक्षमेकं, सुगतकणभुजौ सानुमानं, सशाब्द तद्वैतं पारमर्षः, सहितमुपमया तत्त्रयं चाक्षपादः। अर्थापत्त्या प्रभाकृद्वदति स निखिलं, मन्यते भाट्ट एतत्साभावं, द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥इति ।
तत्र नैयायिकाश्चत्वारि मन्यन्ते प्रत्यक्षानुमानोपमानशब्दभेदात् , तन्मतं दूषयति
न तु प्रत्यक्षानुमानोपमानशब्दभेदाच्चतुर्धा । अनुमानादीनां परोक्षे. ऽन्तर्भावात् ॥३२॥ ____ननु यदि अनुमानादीनि न प्रमाणानि तदा कथं भवान् पश्यति !, चक्षुषोऽभावात् । न च चक्षुः प्रत्यक्षविषयमतीन्द्रियत्वात् । तथा चाऽनुमानाभावे 'रे रेऽनुमानं यदि न प्रमाणं, चक्षुस्तवास्तीति किमत्र मान' मिति चेत्, न । नहि वयमनुमानादीनां प्रमाणत्वं सर्वथैवापलपामः । किन्तु तेषां परोक्षप्रमाण एव समावेशकरणात् स्वतन्त्रप्रमाणत्वमेव वयं निषेधामः । एवं न कापि क्षतिरिति ।
प्रत्यक्षप्रमाणलक्षणमाह