________________
काशास्तिकाये लोकाकाशस्य प्रदेशास्तावन्तः प्रदेशा एकैकस्येत्यर्थः । गमनेति । कर्मपुद्गलग्रहणं तन्मोचनमपि जीवस्य क्रियेति वेद्यम् । शरीरेति । न सर्वमूर्तविभुरित्यर्थः । स्वेति । आत्मनः स्वीयबोधोत्पत्तौ न संयोगी कस्याप्यपेक्षा, स तु स्वयमेव स्वं बुध्यते इत्यर्थः ।। ___ ननु संवेदनं बहुविधं भवति, तत्र किं यथार्थ किं वाऽयथार्थमिति ज्ञातुं ज्ञाने प्रामाण्यमप्रामाण्यं च मृग्यं, तच्च प्रमाणं विना नैव ज्ञेयं, ततश्च किं प्रमाणमिति वाच्यमत आह. स्वपरव्यवसायि संवेदनं प्रमाणम् ॥२९॥ - स्व-प्रमाणात्मकं ज्ञानं, परं-विषयं च व्यवसाययति-निश्चाययति यत् तत् संवेदनं-ज्ञानं प्रमाणम् । प्रमाणात्मकज्ञानस्यैष स्वभाव एव यत्, तत् स्वं परं च व्यवसाययत्येव । तथा च प्रयोगः-प्रमाणात्मकं ज्ञानं व्यवसायस्वभावं समारोपविरोधित्वाद, यन्नैवं तन्नैवं घटवदिति । अत्र स्वपरव्यवसायित्वविशिष्टसंवेदनत्वं प्रमाणस्य लक्षणम् । सामान्योपयोगात्मके दर्शनेऽतिप्रसक्तिवारणाय संवेदनत्वम् । स्वपरबोधकत्वं तु संशयादावपीति तद्वारणाय व्यवसायीति । ज्ञानं परोक्षमितिका दिनां मतनिरासाय स्वेति । बाह्योऽर्थो नास्येवेतिबाह्यपदार्थापलापिनां मतनिराकरणाय परेति । न त्वनधिगतार्थगन्तृत्वादि प्रमाणं स्मृत्यादेरप्रामाण्य प्रसङ्गादिति । अत्रत्योऽधिकविस्तारो मुक्तावल्यादेरवसेयः ॥
ननु ज्ञाने प्रामाण्याप्रामाण्यनिश्चये सतीदं प्रमाणं, इदं न प्रमाणं, इति निर्णतुं शक्यते । तत्र किं प्रामाण्यं, किं चाऽप्रामाण्यं, तच्चोभयमपि कथं जायते ज्ञायते चेति वाच्यं, अत्राह
प्रमेयाऽव्यभिचारित्वं प्रामाण्यं, तदितरत्त्वप्रामाण्यं तदुभयमुत्पत्तौ परत एव, ज्ञप्तौ तु स्वतः परतश्च ॥३०॥ __ यज्ज्ञानं प्रमेयं न व्यभिचरति तत्प्रमाणम् । यत्तु तद्वयभिचरति तदप्रमाणमित्यर्थः । इदमत्र बोध्यं-सर्वमपि प्रमाणमप्रमाणं वा ज्ञानं स्वापेक्षया प्रमाणम