________________
२८
तंत्र नारका रत्नशर्करा वालुकापङ्कधूमत मस्त मस्तमः प्रभा भेदात् सप्तधा । तिर्यञ्चो जलचरस्थलचर खेचर भेदाच्च त्रिधा । प्रत्येकं तेऽपि सम्मूच्छिमा गर्भजाश्च । तत्र गर्भजाः जरायुपोताण्ड भवाः । मनुष्याः सम्मूच्छिमगर्भजभेदेन द्विविधाः । अत्र गर्भजा जरायुजा एव । देवा भवनपतिभ्यन्तरज्योतिष्कवैमानिकभेदाच्चतुर्द्धा । देवनारकगर्भजाः संज्ञिनः । शेषा असंज्ञिनः ||२६||
रत्नप्रभादीनि पृथ्वीनामानि । पृथ्वीनां सप्तत्वात्तन्निवासिनो जीवा नारका अपि सप्तविधाः । जलचरा मत्स्यादयः । स्थलचरा अश्वादयः । खेचराः पक्षिणः । तत्र गर्भजा इति । तद्विपरीतास्तु सम्मूच्छिमा इत्यवधेयम् । सम्मूर्च्छ गर्भनिरपेक्ष भवनं संमूर्च्छस्तस्माज्जाताः सम्मूर्च्छिमा इति यावत् । सम्मूच्छिमा मनुष्यास्त्वस्मदादीनां वान्तपितादिष्वशुचिपदार्थेषु जायन्ते । देवा इति । तत्र भवनपतयोऽधोलोके। व्यन्तरास्तिर्यगधोवर्तिनः । ज्योतिष्कास्तिर्यगूर्ध्ववर्तिनः । वैमानिका स्तूर्ध्व लोके । संज्ञिनः दीर्घ कालिक्या दिसंज्ञोपेता इत्यर्थः । शेषा:सम्मूर्च्छिमा मनुष्यास्तिर्यञ्चश्च । एकेन्द्रियादिचतुरिन्द्रियान्ता अप्यसंज्ञिन इति बोध्यम् ॥
इन्द्रियपञ्चकं तद्विषयपञ्चकं च नामग्राहं दर्शयति
स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्शो रसो गन्धो रूपं शब्दश्च गोचरः ॥२७॥
इन्द्रियमात्रं द्वेधा–द्रव्येन्द्रियभावेन्द्रियभेदात् । तत्र निर्वृत्युपकरणे द्रव्येन्द्रियम् । लब्ध्युपयोगौ च भावेन्द्रियमिति ॥
जीवस्वरूपं प्रदर्शयति
प्रदेशाकजीवस्य धर्माधर्मलोकाकाशप्रमिताः । अयं च गमनागमनात् सक्रियः शरीरमात्रः स्वसंविदितश्च ॥ २८ ॥
यावन्तो धर्मास्तिकायस्य, यावन्तो वाऽधर्मास्तिकायस्थ, यावन्तो वाss