________________
भेदात् पर्याप्तयः । विकलाक्षा द्वीन्द्रियादयस्तेषां चतस्रस्ता एव, पञ्चमी तु भाषापर्याप्तिरपि । पञ्चाक्षाः पञ्चन्द्रियास्तेषां सर्वा अपि-घडपि पर्याप्तय इत्यर्थः ॥
स्थावर भेदानाह
स्थावरा एकेन्द्रियाः। ते च पृथिव्यप्तेजोवायुवनस्पतयः। तत्र वनस्पतयः प्रत्येकाः साधारणाश्च । प्रत्येका बादरा एव । साधारणाः पृथिव्यप्तेजोवायवश्व सूक्ष्मवादरभेदाद् द्विधा ॥२४॥ ____एक स्पर्शनात्मकमिन्द्रियमेषां त एकेन्द्रियाः । स्फटिकमणिपाषाणादयः पृथ्वीकायः । जलादिक्कमप्कायः। वह्नयादिस्तेजस्कायः । उद्भ्रामकादिर्वायुर्वायुकायः । वृक्षादिवनस्पतिकायश्च। प्रत्येका इति । यत्रैकस्मिन् जीवस्यैकं शरीरं ते प्रत्येकाः। उक्तं च-' एगसरीरे एगो जीवो जेसिं तु ते य पत्तेया' इति । यत्र त्वेकस्मिन् शरीरेऽनन्ता जीवास्ते साधारणाः । साधारणवनस्पतय इत्यर्थः । उक्तं च-'जेसिमर्णताणं तणू एगा साहारणा ते उ' इति । चक्षुषा • दृश्यते स बादरः। चक्षुषाऽदृश्यश्च सूक्ष्मः । पञ्चविधा अपि सूक्ष्मैकेन्द्रियाः सकललोकव्यापका इति मन्तव्यम् । 'पत्तेयतरु मुत्तुं पञ्चवि पुढवाइणो सयललोए। मुहुमा हवंति नियमा, अंतमुहुत्ताऊ अदिस्सा' इतिवचनात् ॥ . . . सकायं सप्रभेदमाह... सा द्वित्रिचतुःपञ्चेन्द्रियत्वेन चतुर्विधाः। द्वीन्द्रियाः कृमिशहाद्याः । त्रीन्द्रिया यूकामत्कुणादयः । चतुरिन्द्रिया दंशमक्षिकादयः । पश्चेन्द्रिया नारकतिर्यग्मनुष्यदेवाः ॥२५॥
स्पर्शनरसनलक्षणेन्द्रियद्वयोपेता द्वीन्द्रियाः । स्पर्शनरसनघ्राणोपेतास्त्रोन्द्रियाः । स्पर्शनरसनघ्राणचक्षुरन्विताश्चतुरिन्द्रियाः। स्पर्शनरसनघ्राणचक्षुःश्रोत्रसमन्विताच पञ्चेन्द्रियाः॥
पञ्चेन्द्रियविस्तरमाह--