________________
२६
पुनस्तद्भेदानाहद्विद्वधा - पर्याप्ताऽपर्याप्तभेदात् ॥
T
द्वितयेऽपि-स्थावरास्त्रसाश्वापीत्यर्थः । स्थावराः पर्याप्ता अपर्याप्ताश्च । एवं अपि पर्याप्ता अपर्याप्ताश्च । पर्याप्तिस्वरूपं वक्ष्यति । स्वयोग्यपर्यापतीन् ये समापयन्ति ते पर्याप्ताः । स्वयोग्यपर्याप्ति चाऽसमाप्यैव ये म्रियन्ते. पर्याप्ताः । अपर्याप्ता द्विधा करणतो लब्धितश्च । यैः स्वीयपर्याप्तयो नाद्यापि समाप्ताः, अवश्यं समापयिष्यन्ते तु ते करणाऽपर्याप्ताः । ये तु स्वयोग्यपर्याप्तीनसमाप्यैव म्रियन्ते ते लब्ध्यपर्याप्ताः । एवं पर्याप्ता अपि द्वेधा - करणतो लब्धितश्च । स्वकीयाः पर्याप्तयो यैर्नाद्यापि समाप्ताः, अवश्यं समापयिष्यन्ते तु, ते लब्धिपर्याप्ताः । स्वीयपर्याप्तिसमापकाच करणपर्याप्ताः ॥
ननु पर्याप्तिः का ? कति प्रकारा सा ? इत्याशङ्कायामाह - पर्याप्तिश्वाहारादिग्रहणपरिणमनादिहेतुरात्मनः शक्तिविशेषः । आहारशरीरेन्द्रियप्राणभाषा मनोभेदात् परविधा । ताचैकाक्षविकलाक्षपञ्चाक्षाणां क्रमाच्चतस्रः पञ्च षट् च ॥२३॥
पर्याप्तिचेति । आहारादीति । आदिपदाच्छरीरेन्द्रियप्राणभाषामनसां परिग्रहः । यथा शक्त्या जीव आहारपुद्गलान् गृहीत्वाऽऽहारतया परिणमयति साऽऽहारपर्याप्तिः । यया त्वौदारिकादिशरीर योग्यवर्गणादलिकान् गृहीत्वा शरीरत्वेन परिणमयति सा शक्तिः शरीरपर्याप्तिः । यया तु शरीरयोग्यवर्गणामध्यतः सारभूतान् पुद्गलानादायेन्द्रियरूपतया परिणमयति सा जीवस्य शक्तिरिन्द्रियपर्याप्तिः । यया श्वासोच्छ्वासवर्गणापुद्गलान् गृहीत्वा श्वासोच्छ्वासतया परिणमय्य मुञ्चति सा प्राणपर्याप्तिः । यया भाषावर्गणादलिकान् यया च मनोवर्गणादलिकानादाय क्रमशो भाषात्वेन मनस्त्वेन च परिणमय्य विसृजति सा क्रमशो भाषापर्याप्तिर्मनः पर्याप्तिश्चेति । षडप्येताः शक्तयो जीवस्यैव । तत्र - कस्य जीवस्य कियत्य इत्याशङ्कयाह - ताचेति । एकाक्षविकलाक्षादीनां सभेदं स्वरूपं स्वयमेव वक्ष्यति । एकाक्षा एकेन्द्रियास्तेषां चतस्रः आहारशरीरन्द्रियप्राण