________________
प्रत्येकमभव्यानन्तगुणसिद्धानन्तभागकपरमाणुस्कन्धनिष्पन्नाः ॥२०॥ उत्तरोत्तरमनन्तगुणाः ॥२१॥
प्रत्येकमिति । एताः सर्वा अपि वर्गणा अभव्येभ्योऽनन्तगुणाः; येषु कालत्रयेऽपि मोक्षगमनयोग्यता नैव सम्भवति तेऽभव्यजीवाः, तेषां या सङ्ख्या, तस्याः अनन्तसङ्ख्यया गुणनानन्तरं या सङ्ख्या जायते, तावत्परिमाणा ये परमाणूनां स्कन्धास्तैर्निष्पन्नाः। पुनः कीदृशैस्तैर्निष्पन्नाः ? इत्याह-सिद्धानन्तेति । इह मुक्ताः-सिद्धिगतिमापन्ना जीवा अनन्ताः सन्ति । तेषामनन्ता भागाः क्रियन्ते । तन्मध्याच्चैको योऽनन्ततमो भागः सोऽप्यभव्यजीवेभ्योऽनन्तगुण इति सिद्धान्तः । तस्याऽनन्ततमभागस्य याऽनन्ता सङ्ख्या, तावत्परिमाणा ये परमाणुस्कन्धास्तैर्निष्पन्नाः प्रत्येकमेता वर्गणाः। अष्टापि वर्गणा अभव्यजीवसङ्ख्याया अनन्तगुणप्रमाणैः सिद्धजीवसङ्ख्याया अनन्तभागप्रमाणैश्च पुद्गलसमूहैर्निष्पन्ना इत्याशयः ।। परस्परं च ताः कियन्माना इत्यत्राहउत्तरेति । अयं भावः-औदारिकवर्गणामपेक्ष्य वैक्रियवर्गणायामनन्तगुणाः स्कन्धाः। वैक्रियापेक्षया आहारकवर्गणायामनन्तगुणाः स्कन्धाः। एवं क्रमशः कार्मणवर्गणापर्यन्तं बोध्यम् । विशेषजिज्ञासुभिः पञ्चमकर्मग्रन्थादयोऽवलोकनीयाः । ... जीवप्रथमभेदः मुक्त जीवः सविस्तरं प्ररूपितः, अधुना जीवस्य द्वितीयभेदपसंसारिजीवस्य स्वरूपं सप्रकारमाह
संसारस्था द्विधा-स्थावराश्च त्रसाश्च ॥२२॥
तिष्ठन्ति इति स्थावराः । सुखदुःखनिमित्तोत्पत्तावपि ये नैव कदाचिदपि स्वस्थानादन्यत्र गमनागमनं कर्तुं समर्थास्ते स्थावरा इत्यर्थः । त्रस्यन्तीति त्रसाः । सुखनिमित्ते दुःखनिमित्ते वोत्पन्ने ये स्वस्थानादन्यत्र गन्तुमागन्तुं वा समर्थास्ते त्रसा इत्यर्थः ॥