________________
गन्तुं शक्नोति, तदायुः कर्म । यद्वशाज्जीवो नमति गत्यादीन् पर्यायान् प्रति तन्नामाभिधं कर्म । 'अयमुच्चः, अयं नीचः' इति यद्वशाज्जीवः कीर्त्यते तद् गोत्रं कर्म । अन्तरायकर्म च जीवस्य दानादिलब्धिस्फोरणे विघ्नकारकम् । अष्टविधमप्येतत् क्रमशः . पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्विपञ्चभेदम् । एतच्च पौद्गलिकमित्याह-कार्मणेति । कर्मपुद्गलसमूहः कार्मणवर्गणा । सा चाऽनन्तपुद्गलस्कन्धमयी । असङ्ख्यातप्रदेशात्मन आत्मनः प्रतिप्रदेशमनन्ताः कर्मपुद्गलस्कन्धाः संलग्नाः सन्ति । ते चानन्तप्रदेशा अनन्तरसाश्च । यदा ते कर्मपुद्गलाः सर्वथा क्षीणा आत्मप्रदेशेभ्यश्च परिशटिता भवन्ति तदैवाऽऽत्मनो मुक्तिसम्भव इति ध्येयं, ततश्च कर्मक्षयाय सदोद्यमवंता प्राणिमात्रेण भवितव्यं चेति ॥ - ननूक्तं कार्मणवर्गणानिष्पन्नमिति, . तत्रं का वर्गणा ! कतिविधा च सा ? . कार्मणवर्गणायाः क्रमश्च कः ? इत्यावेद्यम् । अत आहऔदारिकवैक्रियाहारकतैजसभाषोच्छ्वासमनःकामणाभिधा वर्गणाः ॥१९॥
अन्या अपि दृश्या अदृश्याश्च बढ्यो वर्गणाः, अत्र तु प्रकृतत्वाद् जीवोपयोगित्वाच्चाष्टैव दर्शिताः । अस्मदादिमनुष्याणां तिरश्चां च शरीरमौदारिक, तन्निष्पादकपुद्गलसमूह औदारिकवर्गणा । देवनारकाणां शरीरं वैक्रिय, तन्निप्पादकपुद्गलचयो वैक्रियवर्गणा । चतुर्दशपूर्वधराः समुद्भूतविशिष्टप्रयोजनाः आहारकं शरीरं रचयन्ति, तत्कारणं पुद्गलचय आहारकवर्गणा । भुक्तस्याहारस्य पाचनदीपनहेतुस्तैजसशरीरं, तदुत्पादकपुद्गलमयी तैजसवर्गणा । जैनानां मते भाषा, उच्छ्वासः, मनश्च-द्रव्यात्मका एव । ततश्च भाषानिष्पादकद्रव्यमयी भाषावर्गणा। उच्छ्वाससमुत्पादकपुद्गलमयी उच्छ्वासवर्गणा । मनोजनकव्यसम्हश्च मनोवर्गणा । कार्मणवर्गणा तूक्तव ॥
आसां च वर्गणानां परिमाणमाह