________________
. मुक्तिः कर्मक्षयः परमानन्दो वा । न त्वात्यन्तिकदुःखध्वंसो दुरितध्वंसो वा, तस्याऽपुरुषार्थत्वात् ॥१७॥
जीवस्य संसारवासः कर्महेतुकः । यदा कर्म समग्रं क्षीयते तदाऽऽत्मनोंऽनन्तगुणात्मकमानन्दात्मकं स्वाभाविकं स्वरूपमाविर्भवति, तदा चाऽऽत्मा देहवाग्मनोभिः कर्मजनितैर्मुक्तो भवति, कर्मणोऽभावादेव । सिद्धिगतौ च तस्य निवासो भवति । तत्र सोऽनन्तज्ञानानन्तदर्शनानन्तसुखानन्तवीर्यात्मकनिजगुणाननन्तकालमनुभवंस्तिष्ठति । सैव मुक्तिः । सैव च सकलानां संसारव्यग्रपुरुषाणामर्थत्वेन पुरुषार्थः । को नाम दुःखसंकीर्णसुखलेशं हित्वा परमसुखात्मकं मोक्षं नार्थयतीति । । केचित्त दुःखस्यात्यन्तिकं ध्वंसमेव, दुःखकारणदुरितध्वंसमेव वा मोक्षं मन्यन्ते । नैष पक्षः समुचितः । यतस्तेषां मते मोक्षस्य ध्वंसरूपता; मोक्षावाप्त्यनन्तरमपि तेषां आत्मविशेषगुणानामुच्छेदो भवति । वस्तुतस्तु आत्मविशेष.गुणोच्छेद एव तेषां मोक्षः । एतादृशो ध्वंसात्मक उच्छेदात्मको वा मोक्षो जडमतीनामेव पुरुषार्थत्वेनाभिमतो भवितुमर्हति, न तु जिनप्रवचनसेवावदातमतीनाम् ।
ननु कर्मक्षयो मुक्तिरित्यत्र किं कर्म ? कतिविधं तत् ? इत्यत्राह
ज्ञानदर्शनावरणवेद्यमोहनीयायुर्नामगोत्रान्तरायभेदादष्टधा कर्म, कार्मणवर्गणानिष्पन्नं पौद्गलिकम् ॥१८॥ '' - ज्ञानेति । साकारो-विशेषो वा उपयोगो ज्ञानम् । अनाकारः-सामान्यात्मको वा उपयोगो दर्शनम् । 'इदं किञ्चित्' इति दर्शनं, 'इदं द्रव्यं' इति च ज्ञानम् । यद्वा 'इदं द्रव्यं' इति दर्शनं, 'अयं घट' इति तु ज्ञानम् । तत्र ज्ञानं आत्रियते येन कर्मविशेषेण तज्ज्ञानावरणं कर्म । दर्शनस्यावारकं च ‘दर्शनावरणं कर्म । जीवैः सुखं दुःखं च यस्योदयेन वेद्यते तद्वेद्यं कर्म । जीवो मुह्यति-सारासार विवेकमूढो भवति यद्वशात् तत् कर्म मोहनीयम् । यदशाउजीवो देवादिगतिषु तिष्ठति, स्वयोग्यायुषः समाप्तिं विना च नान्यत्र भवे