________________
२२
जीवन्ति दशविधप्राणान् धारयन्तीति जीवाः - प्राणिनः । ते च मुक्त - संसारिभेदाद् द्विवेत्यर्थः । मुक्ति: - कृत्स्नकर्मक्षयजनितपरमानन्दरूपा आप्ता यैस्ते मुक्ताः, संसारातीता इति यावत् । संसरन्ति - अपरापरगतिष्वटन्ति जीवा अस्मिन्निति संसारस्तत्र स्थिताः - संसारस्थाः, कर्ममललिप्तत्वेन मुक्त्यभावासंसारे चङ्कमणशीला इत्यर्थः । अस्मिन् भेदद्वये समस्तजन्तुजातस्य सङ्ग्रह इति मन्तव्यम् ॥
• मुक्तजीवप्रकारानाह-
तत्र मुक्ता जिना - इंजिन - तीर्था - तीर्थ-स्वयंबुद्ध - प्रत्येकबुद्ध-बुद्धबोधित - नपुंसक - स्त्री-पुंलिङ्ग - गृह्य - न्य- स्वलिङ्ग - का - नेकेतिप्ररूपणाभेदात् पञ्चदशधा ॥
1
1:1
मुक्तत्वावस्थायां जीवाः सर्वेऽप्येकविधा एव, मुक्तिगमनात्पूर्वदशा मपेक्ष्य तु तेषां भेदा इत्यवधार्यम् | जिनेति । ये तीर्थकरत्वमवाप्य मुक्ताः - सिद्धाः, ते जिनसिद्धाः । ये तीर्थकरत्वं विनैव केवलित्वमवाप्य सिद्धास्तेऽजिनसिद्धाः । ये तीर्थस्थापनानन्तरं सिद्धास्ते तीर्थ सद्धाः । ये तु तीर्थस्थापनात् पूर्वमेव मरुदेवादिवत् सिद्धास्तेऽतीर्थसिद्धाः । ये अन्यप्रदत्तोपदेशनिरपेक्षं स्वयमेव बुद्धाः सिद्धाश्च ते स्वयं बुद्धसिद्धाः । ये तु एकं कारणं - भववैराग्यकारणमवाप्य बोध माप्ताः सिद्धाश्च ते प्रत्येकबुद्धसिद्धाः । ये तु गुरूपदेशाद् बोधमाप्तवन्तस्ते बुद्धबोधिताः सिद्धाः । ये नपुंसकलिङ्गाः स्त्रीलिङ्गाः पुंलिङ्गा वा दीक्षामादाय सिद्धास्ते तत्तल्लिङ्गसिद्धाः। ये गृहस्थिता एव, न तु दीक्षा मुनिवेषश्वाद्यापि तैरादृतौ, तेषां गृहस्थित्वे एव केवलज्ञानमुत्पद्यतेऽतस्ते गृहिलिङ्गसिद्धाः । येऽन्यलिङ्गेजैनेतरलिङ्ग एव सिध्यन्ति ते अन्यलिङ्गसिद्धाः । ये स्वलिङ्गे-जैनवेष एव सिध्यन्ति ते स्वलिङ्गसिद्धाः । एकस्मिन् समये ये यादयोऽष्टोत्तरशतपर्यन्ताः सिध्यन्तिं तेऽनेकसिद्धाः । एकस्मिन् समये एकस्यैव सिद्धौ स एकसिद्ध इति ॥ ननु मुक्तिः का तर्हीति चेदाह -