________________
इति चेदाह-तस्येति । अस्तिकायस्य स्कन्धात्मकस्येत्यर्थः । सांशः-सावयवो भागः सप्रदेश इति यावत् । प्रदेशश्च तस्यास्तिकायस्य निरंशो-निविभाज्यो भाग इति ॥ धर्माऽधर्माऽऽकाशानां सिद्धिस्त्वेवम्-जीवपुद्गला लोके एव गमनागमनादिरूपां गतिं कुर्वते, नाऽलोके । अतो ज्ञायते यत्तेषां लोके गतौ साहाय्यकारकं किमपि द्रव्यं वर्तते, तच्च तैरपेक्ष्यते । अलोके च तस्याऽभावान्न तेषां तत्र गतिः । यच्च तद् द्रव्यं स धर्मास्ति कायः । यद्वा जीवपुद्गलानां गत्यात्मकं कार्य विशिष्टकारणजन्यं विशिष्ट कार्यत्वात् शाल्यङ्कुरवत् । यच्च तत्कारणं स धर्मास्तिकायः । एवं जीवपुद्गलानां स्थितिः-स्थिरता लोके एव भवत्येव, न त्वलोके; गमनाभावात् । लोके च गतिकारणधर्मास्तिकायसत्त्वेऽपि यदपेक्षणात् तेषां स्थिरता भवति सोऽधर्मास्तिकायः । जीवादीनां स्थित्यात्मकं कार्य विशिष्टकारणापेक्षं कार्यविशेषत्वात्, क्षित्यादौ शरीरादिवदिति च प्रयोगः । पक्षकदेशस्य दृष्टान्तत्वे न कापि हानिरिति ध्येयम् । यश्च तत्रापेक्ष्यते सोऽधर्मास्ति
कायः । आकाशसिद्धिस्त्वेवम्-द्रव्याणि यत्किञ्चित्पदार्थमधिष्ठाय तिष्ठन्ति : साधारवादाधेयत्वान्यथानुपपत्तेर्वा इति ॥ . धर्माऽधर्माऽऽकाशान् स्वरूपतः परिचाययति
धर्माधर्मों लोकपरिमाणावसङ्ख्येयप्रदेशकौ ॥१६॥ - आकाशं लोकालोकभेदाद् द्विविधम् । तल्लक्षणं त्विदं-धर्मादीनां ...वृत्तिव्याणां भवति यत्र तत् क्षेत्रम् । तैव्यैः सह लोकस्तविपरीतं ह्यलोकाख्यम् ॥ प्रदेशा लोकस्याऽसङ्ख्याता, अलोकस्याऽनन्ताः ॥१५॥
लोकपरिमाणौ-लोकव्यापकौ । शेषं सर्वमुक्तप्रायत्वात् स्पष्टमेवेति ॥
सर्वे चैतेऽजीवास्तिकाया मुख्यवृत्त्या जीवस्यैवोपयोगिन इति जीवाभावे तेषां निष्प्रयोजनत्वापत्तिरतोऽस्ति जीव इति स्वीकार्यमेव, तस्य चोपयोगो लक्षणमित्युक्तं पूर्वमेव, स च जीवः कतिविधः ? इत्याशङ्का ऽधुना वर्तते, तत्राह
जीवा द्विधा-मुक्ताः संसारस्थाश्च ॥१६॥