________________
- ननु कानि द्रव्याणि कतिसङ्ख्यानीति वाच्यं, इत्यत आह- - भाऽकादाशादेकद्रव्याणि । जीवपुद्गलकाला अनन्तानि ॥११॥ . धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायश्चैकद्रव्याणि । जीवा अनन्ता इत्युक्तपूर्व, पुद्गला अप्यनन्ता एव, कालोऽप्यनन्त एव, अनन्तसामयिकस्वादिति ॥
द्रव्याणां मूतॊमूर्त्तविभागमाहरूपिणः पुद्गलाः । शेषाण्यरूपीणि ॥१२॥ स्पष्टम् ॥ क्रमशो द्रव्याणामन्तर्विभागमाह
तानि च दशधा । धर्मास्तिकायस्तदेशस्तत्प्रदेशः । अधर्मास्तिकायस्तदेशस्तत्प्रदेशः। आकाशास्तिकायस्तदेशस्तत्प्रदेशः । अद्धा समयश्च निर्विभागत्वाचास्य न देशप्रदेशसम्भवः । सकलदेशप्रदेशानुगतसमानपरिणतिमद्विशिष्टं द्रव्यमस्तिकायः । तस्य सांशो भागस्तद्देशः । निरंशो भागस्तत्प्रदेशः ॥१३॥
तानि-अरूपीणि, अरूपिष्वपि मध्ये धर्माऽधर्माऽऽकाशकाला इत्यर्थः । जीवभेदानां पुद्गलभेदानां चाग्रे वक्ष्यमाणत्वात् । कालस्त्वेक एवानन्त इति तस्य न स्कन्धदेशादिभेदसम्भव इत्याह-निर्विभागेति । धर्माऽधर्माऽऽकाशास्त्रयः स्वयं स्कन्धरूपाः, तेषां च देशप्रदेशौ प्रत्येकमन्तर्विभागाविति नवं, दशमश्च काल इति दशभेदा अरूप्यजीवास्तिकायस्येति रहस्यम् । तत्र कोऽयमस्तिकाय इत्याशङ्कायां तत्स्वरूपमाह-सकले ति । सकला ये देशप्रदेशास्तेषु 'अयं अस्तिकायोऽयमस्तिकाय' इत्याकारा याऽनुगता-अनुवर्तमाना समाना-समाकारा परिणतिः-बुद्धेः परिणामः, अनुगतप्रतीतिरिति यावत्; अस्तिकायत्वस्य जातित्वेन अनुगतप्रतीतिनियामकत्वात्; तद्वद् विशिष्टं च यद् द्रव्यं सोऽयमस्तिकायः । असङ्खयप्रदेशसमूह इति यावत् ॥ तत्र को देशः कश्च प्रदेश