________________
एवं प्रदीपादावपि । नहि तैजसाः परमाणवो दीपपर्यायापन्ना वाताभिघातादिना तेजःपर्यायं परिहायान्धकाररूपपरिणत्यन्तरं भजन्तोऽयेकान्तेनाऽनित्याः, पुद्गलरूपतया व्यवस्थितत्वात्तेषाम् । न हि पूर्वपर्याय नाश उत्तरपर्यायोत्पाद इत्येतावतैवानित्यत्वं । न हि सुवर्णद्रव्यं हारके. यूराद्यवस्थान्तराण्यासादयदप्येकान्ततो वस्तं, आबालगोपालं तेषु सुवर्णद्रव्यानुगमस्य प्रतीतत्वात् । 'घटरूपेण मृद्रव्यं नष्टं, न मृद्र्व्यरूपेण नष्टं' 'घटरूपेण घटो नष्टो न तु मृद्रूपेण' इति प्रतियन्ति च लोका अपि वस्तुनो नित्यानित्यत्वमिति ।" किञ्च-आत्मा न विभुः; किन्तु शरीरप्रमाणः; तद्गुणानां ज्ञानादीनां तत्रैवोपलभ्यमानत्वात् । यस्य गुणा यत्र देशे उपलभ्यन्ते, स तत्रैव वर्तितुं योग्यः शक्यश्च, नान्यत्र, यथा घटपटादिः । तथा चात्मेति । आह च
" यत्रैव यो दृष्टगुणः स तत्र, कुम्भादिवभिष्प्रतिपक्षमेतत् । ... . तथापि देहाद् बहिरात्मतत्व-मतत्त्ववादोपहताः पठन्ति ॥” इति ।
- स चात्मा सङ्कोचेविकासशीलः, अत एव यादृशो जीवो गजे तादृश एव . कीटिकायामपि स्यादिति सङ्गच्छते । श्रोत्रेन्द्रियमपि निवृत्युपकरणरूपं पौद्गलि.
कमेवेति न तदाकाशीयं, आकाशस्याऽपौद्गलिकत्वेनाऽमूर्तत्वात् । दिगपि न स्वतन्त्रं द्रव्यं, किन्त्वाकाशात्मकमेवेत्याह-दिक् चेति ॥ .... ननु षड् द्रव्याणीति सिद्धं, तत्र कानि सक्रियाणि कानि वा निष्क्रियाणि, उत सर्वाण्येवाऽक्रियाणि सक्रियाणि वेति दर्शनीयमित्यत्राह- ...
जीवपुद्गलाः सक्रियाः, शेषाण्यक्रियाणि ॥१०॥
जीवेति । ननु क्रियावत्वं मूतत्वं, जीवश्च भवताऽमूर्त उच्यते, तत् कथं तत्र क्रिया सङ्गच्छते ? सत्यं, किन्तु स्याद्वादिनां नायं दोषः । शरीरसमागमादात्माऽपि अस्माकं कथञ्चिन्मूर्त एव, तथा च तत्र क्रियावत्त्वे न कोऽपि बाध इति । शेषाणि-धर्माधर्माकाशकाला इत्यर्थः ॥