________________
दो नस्थि उवओगा' इति सिद्धान्तानुसारेण प्रतिजीवं प्रतिसमयमेकस्यैवोपयोगस्य सरवादित्यादिकयुक्तिप्रमाणसम्पन्नमिति बोध्यम् । किश्चेति । पृथिवी एव कालान्तरे जलतया, जलमेव च कालान्तरे पृथिवीतया परिणमति । एवमन्यान्यपि पुद्गलद्रव्याणि स्वभिन्नद्रव्यतामाप्नुवन्तीति जैनमतं, एवं च कुतो पृथिवी जलं चोभयमपि स्वतन्त्रे द्रव्ये भवितुमर्हतः ! । अन्यथा-चेद् भवन्मतानुसारेण तेषामपि स्वभिन्नद्रव्यतया परिणामिनां द्रव्याणां पार्थक्यं-पृथगद्रव्यत्वमेवेष्यते तदा इत्यर्थः । पटेति । पटोऽपि कदाचित्खण्डपटाद्यात्मकतया परिणमतीत्यतो पटस्य खण्डपटस्यापि च प्रत्येकं स्वतन्त्रद्रव्यत्वमेव स्वीकरणीयं स्यात् । एवं घटोऽपि पार्थिवः, शरावोऽपि तथा । तथा च तावपि स्वतन्त्रे द्रव्ये स्याताम् । यदि च तेषां घटशरावादीनां पार्थिवत्वेन न स्वतन्त्रद्रव्यत्वं, तर्हि पृथिव्यादीनामपि पौद्गलिकत्वेनैव न स्वतन्त्रद्रव्यत्वमिति । न केवलं पृथ्व्यादीनां, अपि तु शब्दान्धकारातपप्रभोद्योतादीनामप्यस्मन्मते पौद्गलिकत्वमेव । उक्तं च
" सबंधयार उज्जोअ-पभा छायाऽऽतवेहि आ । वण्णगन्धरसाफासा, पुग्गलाणं तु लक्खणं ॥” इति ॥
आकाश-काल-आत्मनामस्माभिः स्वतन्त्रद्रध्यत्वमभ्युपगतमेव । न च तेषामप्येकान्तेन नित्यत्वमिति तु विशेषः। अस्मन्मते नित्यमनित्यं वा. सर्वमपि द्रव्यजातं द्रव्यात्मना नित्यं पर्यायात्मना चानित्यमिति बोध्यम् । यदुक्तं ग्रन्थकारेणैव स्वरचितजैनसिद्धान्तमुक्तावल्यां"अवगाहकानां जीवपुद्गलानां प्रयोगाद्विस्रसातो वा । एकस्माअभःप्रदेशात् प्रदेशान्तरमुपसर्पणे तैः सममाकाशस्यैकस्मिन् प्रदेशे विभाग उत्तरस्मिंश्च संयोगः । एवं चाकाशस्य पूर्वसंयोगध्वंसरूपपरिणत्यापच्या विनाशः, उत्तरसंयोगोत्पत्त्याख्यपरिणत्यनुभवाच्चोत्पादः, विरुद्धधर्माध्यासे धर्मिभेदस्यावश्यंभावित्वात् । धौव्यं चाकाशस्योत्पादव्यययोरधिकरणत्वेनानुगतत्वात् । तद्भावाव्ययं चात्र नित्यं, उत्पादविनाशभावेऽपि अन्वयिरूपात्तद्भावाद् यन्न व्येति तन्नित्यमिति तदर्थः ।