________________
उक्तं च
१७
" जन्यानां जनकः कालो जगतामाश्रयो मतः । परापरत्वधीहेतुः क्षणादिः स्यादुपाधितः ॥
इति । दैशिकपरत्वापरत्वहेतुश्च दिक् । साध्येकैव, उपाधिभेदात्तु प्राच्या दिव्यपदेशं प्राप्नोति । आत्मेति । तत्र जीवात्मा - इन्द्रियाद्यधिष्ठाता धर्माधर्माधारः 'अहं' प्रत्ययगोचरत्वेन प्रत्यक्षः । तस्य च प्रत्यक्षं मनसैव विशेषगुण संपर्कवता । बुद्ध्यादिगुणानामाश्रयश्व सः । द्वितीय इति । परमात्मेत्यर्थः । परमात्मा जगतः स्रष्टा, स चैको नित्यश्चेति तस्य गुणा-ज्ञानं, इच्छा, कृतिः - प्रयत्न:-अपि नित्या एवेति । आकाशेति । आकाश-काल- दिग्देहिनो विभवः - व्यापकाः । विभुत्वं च सर्वमूर्त्तसंयोगित्वम् । ते च नित्या - अप्रच्युता ऽनुत्पन्नस्थिरैकरूपा इत्यर्थः । मन इति । मनसो व्यापकत्वे ज्ञानानां भिन्नभिन्नेन्द्रियजन्यानां युगपद्भावः संभवेत्, न च भवतीत्यतः कल्प्यते मनोऽणु इति । तदपि नित्यं, . अनन्तसङ्ख्यं, प्रतिजीवं पृथक् चेति. ॥
•
एवं नैयायिकमतं निरूप्य तत् खण्डयति
तन । पृथिव्यप्तेजोमनसां पुद्गलस्वरूपाऽनतिरेकात् पुद्गलत्व'प्रतीतेः सर्वत्राविशिष्टत्वात् । किञ्च य एव पुद्गलाः पृथिवीत्वादिना परिणतास्त एव जलत्वादिनाऽपि परिणमन्ति । य एव च जलत्वादिना परिणतास्त एवं पृथिवीत्वादिनाऽपि परिणमन्तीति । अन्यथा पटसुवर्णादीनामपि द्रव्यभेदापत्तेः । दिक् च नमः प्रदेशपक्तिरूपैवेति नातिरिच्यते ॥ ९ ॥
तन्नेति । पृथिव्यविति। मनोऽपि पौद्गलिकमेव, अत एव न नित्यं, पुदगलानामपचयोपचयरूपत्वेनाऽनित्यत्वात् । पौद्गलिकत्वादेव च तन्नाणुरूपमिति ध्येयम् । एवं च पृथिव्यादीनां पुद्गलास्तिकाय एव समावेशान्न स्वतन्त्र पदार्थतेति । यथा च मनसोऽणुत्वाभावेऽपि ज्ञानानामयोगपर्यं संभवति तद् 'जुगवं
२