________________
अपाकजाश्च, तत्र पाकजाः क्षितौ-क्षितिपरमाणावेव । शेषेषु तु इमेऽपाकजा एव । पाको नाम विलक्षणतेजःसंयोगस्तेन जातः पाकजः । एवं च वायौ यः स्पर्शः सोऽपाकजः, अनुष्णाशीतश्च सः-न उष्णो नापि शीत इति भावः । स वायावेव नान्यत्रेति वायोलक्षणं सः । आकाशे-कर्णशष्कुल्यवच्छिन्ने एव शब्दो जायते समवायसम्बन्धेन, अत आकाशः शब्दसमवायिकारणम् । इदानीं घट' इत्याद्यतीतानागतवर्तमानव्यवहारहेतुत्वं कालस्य । 'इयं प्राची' इयं प्रतीची' इत्यादिव्यवहारस्य हेतुभूतं द्रव्यं दिग् । आत्मा ज्ञानवान् । मनश्चाऽऽत्मनिष्ठज्ञानसुखादिगुणानां साक्षात्कारे 'अहं सुखो'त्याद्यात्मके हेतुरिति । पृथ्व्यादीनां विभागमाह-पृथिव्यादय इति । स्पष्टम् । शरीरेति.। चेष्टाश्रय शरीरम् । हिताहितप्राप्तिपरिहारार्था क्रिया चेष्टा । इन्द्रियत्वं च शब्देतरोद्भूत विशेषगुणाऽनाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम् । भवति चेन्द्रियमात्रं. शब्देतरा ये उद्भूता विशेषगुणा उद्भूतरूपरसादयस्तेषामनाश्रयं, ज्ञानकारणी भूतस्येन्द्रियमनःसंयोगस्य चाऽऽश्रयमिति । उपभोगसाधनं च विषय इति । प्राग्वदिति । अयोनिजमित्यर्थः । घ्राणेन्द्रियं रूपादिषु मध्ये गन्धस्यैव व्यञ्ज. कत्वात्पार्थिवं, रसनेन्द्रियं रूपादिषु रसमात्रव्यञ्जकत्वेन जलीयं, चक्षुरिन्द्रियं स्प
र्शाऽव्यञ्जकत्वे सति परकीयरूपव्यञ्जकत्वात्तैजसं, स्पर्शमात्राभिव्यञ्जकत्वाच्च त्वगिन्द्रियं वायवीयम् । पार्थिवो विषयः पाषाणप्रस्तरादिः । जलीयः सरित्समुद्रादिः । हिमकरकाद्यपि तस्यैव, न पृथिव्या इति बोध्यम् । वह्निः सुव
र्णादिश्च तैजसो विषयः । सुवर्ण तैजसं, असति प्रतिबन्धकेऽत्यन्तानलसंयोगेs प्यनुच्छिद्यमानद्रवत्वादित्यर्थः । वायवीयो विषयः प्राणः । स चैकोऽपि स्थानभेदात् प्राणापानादिसंज्ञां लभते । आकाशीयमिन्द्रियं श्रोत्रम् । यद्यपि श्रोत्रेन्द्रिय पुरुषभेदान्नाना, आकाशं त्वेकं नित्यस्वरूपमिति कथं श्रोत्रमाकाशीयं स्यादिति शङ्कितुं शक्यते, तथाप्युपाधिभेदात्-कर्णशष्कुल्यात्मकोपाधिभेदादाकाशं नाना सम्भवतीति न दोषः । कर्णशष्कुल्यवच्छिन्नमाकाशमेव श्रोत्रमिति यावत् । कालश्च परापरत्वधीहेतुः, अयमस्मात् परः, अयमस्मादपरः इत्यात्मककालिक परत्वापरत्वयोहतुरित्यर्थः । स चैकोऽपि उपाधिवशात् क्षणदिनादिभेदं भजति ।