________________
स्थिकाए आगासत्थिकाए जीवस्थिकाए पोग्गलत्थिकाए अद्धासमए" इत्यलं विस्तरेण" इति ॥
कालसत्त्वे ह्येव च जन्तवः स्वकीयाऽन्यदीयास्तित्वादिभावं ज्ञातुं समर्था भवन्ति, अतः कालस्तत्र निमित्तमिति भावः । स च कालः समयाधुपाधिभेदाद् बहुविधो बोध्यः ॥
अत्र नैयायिकाभिमतं दूषयितुं तत्सम्मतद्रव्यादिविभागमुपन्यस्यति
परे तु, पृथिव्यप्तेजोवाय्वाकाशकालदिगदेहिमनांसि द्रव्याणि । गन्धवत्वं शीतस्पर्शवत्त्वमुष्णस्पर्शवत्त्वमपाकजानुष्णाशीतस्पर्शवत्त्वं शब्दसमवायिकारणत्वं अंतीतादिव्यवहारहेतुता प्राच्यादिव्यवहारहेतुता ज्ञानवत्त्वं सुखादिसाक्षात्कार हेतुतेति क्रमात्तेषां लक्षणानि । पृथिव्यादयश्चत्वारो नित्या अनित्याश्च । नित्याः परमाणुरूपा अनित्या द्वयणुकादिरूपाः। ते च शरीरेन्द्रियविषयभेदात् त्रिधा । पृथिव्यां शरीरं योनिजमयोनिजं च मनुजकुम्यादीनाम् । इन्द्रियं घ्राणम् । विषयः पाषाणादिः । जले शरीरमयोनिजं वरुणलोके । इन्द्रियं रसनं, विषयः सरिदादिः । तेजसि शरीरं प्राग्वत्, तच्च सूर्यलोके । इन्द्रियं चक्षुः, विषयो वह्निसुव
दिः । वायौ शरीरं प्राग्वत्, तच्च वायुलोके । इन्द्रियं त्वक, विषयः 'प्राणादिः । आकाशे इन्द्रियं श्रोत्रम् । आत्मा जीवात्मा परमात्मा च । ..आद्यः प्रत्यङ्गं भिन्नः । द्वितीयः सर्वत एक एव नित्यज्ञानेच्छाकृति मान् । आकाशादयो विभवो नित्याश्च । मनोऽणुरूपं नित्यमनन्तं चेति ॥
परे विति । कार्यसमवायिकारणं द्रव्यम् । तच्च नवधा पृथ्यादिभेदेन । तत्र पृथ्वी क्षितिः, आपो जलानि, तेजो वह्निः, वायुः पवनः, आकाशः, काल: समयः, दिग् दिशा, देही आत्मा, मनश्चेति नव । तेषामसाधारणधर्मरूपाणि क्रमशो लक्षणान्याह-गन्धेति । पृथिव्यामेव गन्धः, जल एव शीतस्पर्शः, तेजस्येवोष्णस्पर्शः, वायावेवापाकजानुष्णाशीतस्पर्शश्च । रूपरसगन्धस्पर्शाः पाकजा