________________
ग्रहणं गुणो यस्य स ग्रहणगुणः पुद्गलः । तस्य पूरणगलनादिरूपः स्वभावः । स च पृथ्यादिभेदादनेकरूपः । अचेतनो मूर्तश्च । तस्य चत्वारो भागाः, स्कन्धाः, देशाः, प्रदेशाः, परमाणवश्च । धर्माऽधर्माऽऽकाशा अपि स्कन्ध-देश --प्रदेशभेदात् त्रिविधा इति बोध्यम् । अनन्तपरमाणूनां समूहः स्कन्धः । स्कन्धैकदेशो देशः । स्कन्धस्थो देशस्थो वा परमाणुः प्रदेशः । स्कन्धादेश्च्युतः प्रदेशो निर्विभाज्यभागस्वरूपः परमाणुरिति । स च पुद्गलो वर्णगन्धरसस्पर्शः समन्वित एव भवति । तदुक्तम्-“वण्णगंधरसा फासा, पुग्गलाणं तु . . लक्खणं" । इति । वर्तनेति । धर्मादिपदार्थानां स्वस्वपर्यायोत्पत्तौ स्वयमेव . प्रवर्त्तमा नानां तथा करणे प्रेरणं वर्तना । नवत्वजीर्णत्वादिपरिणामा एवं वर्तनेति यावत् । सा च कालस्य लक्षणम् । कालश्च नाऽस्तिकायरूपः । तत्र देशप्रदेशादिविभागाभावात् । तदुक्तं जीवसमासवृत्तौ____ "अथ यथा धर्मास्तिकाय इत्युक्तं तथा कालास्तिकाय इति कस्मान्नोच्यते ? इति चेत्, नैवं, प्रदेशबहुत्व एव तदुपपत्तेः । अत्र च तनास्ति । अतीतानागतसमयानां विनष्टानुत्पन्नत्वेन प्रज्ञापकप्ररूपणाकाले वर्तमानसमयलक्षणस्यैकस्यैव प्रदेशस्य सद्भावादिति । यद्येवं, आवलिकामुहूर्तदिवसादिप्ररूपणाया अप्यभावप्रसङ्गः प्राप्नोति, आवलिकादीनामप्यसङ्ख्येयसमयात्मकत्वेन प्रदेशबहुत्व एवोपपत्तेः ? । सत्यमेतत्, केवलं स्थिरस्थरकालत्रयवत्तिवस्त्वभ्युपगमपरव्यवहारनयमतमाश्रित्याबलिकादिकालः प्ररूप्यते । निश्चयनयस्तु मन्यते, न धर्मास्तिकायादौ प्रदेशराशिरिवावलिकादाववस्थितः समयराशिरस्ति, अतीतानागतानां विनष्टानुत्पन्नत्वेन वर्तमानसमयमात्रस्यैव सत्त्वादिति न वास्तवा आवलिकादयो, नापि कालेऽस्तिकायतेति । अत एव कालोऽन्यत्र वर्तमानसमयमात्रतयैव निर्धार्य प्रो को न सामान्येन । यदाह-'कइ णं भंते.. दव्या पन्नता ? गोयमा ! छ दव्या पन्नता, तं जहा-धम्मत्थिकाए अधम्म