________________
भवति चैतन्यात्यन्ताभावः । नित्यो योऽभावः सोऽत्यन्ताभाव इति यावत् । तत्र चेतन एव अचैतन्याभावरूपः, अचेतन एव च चैतन्याभावरूपः । "सर्वमस्ति स्वरूपेण पररूपेण नास्ति च ॥” इति जैनैः सिद्धान्तितत्वात् ॥ ___ द्रव्यगुणपर्यायास्त्रयः पदार्थास्तत्र कानि कति च द्रव्याणीत्यत्राह
— धर्माधर्माकाशजीवपुद्गलकाला द्रव्याणि ॥७॥ गत्युपष्टम्भको धर्मास्तिकायः । स्थित्युपष्टम्भकोऽधर्मास्तिकायः । अवगाहस्वभाव आकाशः। उपयोगलक्षणो जीवः । ग्रहणगुणः पुद्गलः । वर्तनालक्षणः कालः ॥८॥
अस्तयः-प्रदेशाः । प्रदेशोऽविभाज्यः सर्वसूक्ष्मो वस्त्वंशः । तेषां कायःसमूहोऽस्तिकायः । धर्म एव, अधर्म एव, आकाश एव, जीव एव, पुद्गल एव वा अस्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायो जीवास्तिकायः पुद्गलास्तिकायः कालश्च इति पइ द्रव्याणि । कालोऽनन्तोः निरवधिश्च, तस्य न प्रदेशाः । शेषाः सप्रदेशाः । प्रत्येकं द्रव्याणां कार्यमाह-गतीति । जीवपुद्गल. योर्गतौ-गमनागमने साहाय्यदायको धर्मास्तिकायः । जीवपुद्गलयोरेव स्थितौस्थिरतायां गमनागमनाभावरूपायां साहाय्यदानस्वभावोऽधर्मास्तिकायः । तावुभौ चतुर्दशरज्ज्वात्मकलोकव्यापको । तौ चाऽचेतनावमूर्ती च । असङ्खचेय प्रदेशात्मको च । जीवपुद्गलयोरेव यथास्थानमव काशदानतत्परं आकाशम् , 'अवकाशदमाकाश' मित्युक्तेः । आकाशं तु लोकालोकव्यापि । तत्र लोकाकाशमसङ्ख्यप्रदेशात्मकमितरत्त्वनन्तप्रदेशम् । उपयोग इति । उपयोगो ज्ञानं दर्शनं च । स च जीवस्य लक्षणम् । विश्ववर्ती यः कोऽपि सूक्ष्मः स्थूलो वा जीवः स जघन्यतोऽप्युपयोगस्याऽव्यक्तमंशं बिभत्यैव, अन्यथा तस्य जीवत्वं न स्यादत एव जीवस्य उपयोगो लक्षणमुक्तम् । उक्तं च-"उपयोगो लक्षणम्"।
स च जीवोऽनन्तसङ्ख्यकः । चैतन्यात्मकोऽमूर्तश्च । जीवास्तिकायत्वेन रूपेण स सकललोकव्यापीति । प्रतिजीवं चाऽसङ्ख्याताः प्रदेशाः । जीवानां च परस्परं हिताहितबोधदानादिरूप उपकारोऽस्ति । ग्रहणेति । जीवैगृह्यमाणत्वाद्