________________
भेदाभेदपक्षे समूहरूपेण समागच्छन्ति, तदा कः पन्थाः ? इति चेत् , न । . अत्र द्वयोर्भाव इति न, किन्तु स्वतन्त्र एवोभयपक्षमिश्रणघटितस्तृतीयः पक्षः, नृसिंहादिवत् , तत्र च नैकोऽपि दोषः सम्भवतीति ध्येयम् ॥ अभावोऽपि तुच्छत्वामातिरिक्तः पदार्थः । अपि त्वधिकरणरूप एव । तदेवाऽऽह-अभावश्चेति ॥
ननु भवतु भवन्मतेऽभावोऽधिकरणात्मकः, परन्तु स कतिभेदः किं स्वरूपै-.. चेति दर्शनीयमित्यत आह
तत्र, यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावः, यथा घट- . स्य मृत्पिण्डः । यदुत्पत्तौ कार्यस्याऽवश्यं विपत्तिः सोऽस्य प्रध्वंसाभावः, . यथा कलशस्य कपालकदम्बकम् । स्वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतरा. भावः, यथा स्तम्भस्वभावात् कुम्भस्वभावव्यावृत्तिः । कालत्रयापेक्षिणी . तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः, यथा चेतनाचेतनग्रोः॥६॥
तत्र यनिवृत्ताविति । घटस्येति । यदा घटो मृत्पिण्डावस्थस्तदा भवति प्रतीतिः ‘इह मृत्पिण्डे घटो भविष्यतीति । एवं च मृत्पिण्ड एव घटस्य प्रागभावः । न च जैनानामे कस्मिन्नेव पदार्थे समकालमस्तित्व-नास्तित्वधर्मवादिनां मते मृत्पिण्डस्याधिकरणस्याऽभावात्मकत्वं दुर्घटमिति ध्येयम् । प्रध्वंसस्वरूपमाह-यदुत्पत्ताविति । यदा घटो ध्वंसते स्वावयवेषु, तदा 'इह कपालयुगले घटो ध्वस्त' इति भवति प्रतीतिः । एवं च कपालकदम्बकस्योत्पत्तिस्तदैव यदा घटस्य नाशः । अतः घटध्वंसस्याधिकरणं कपालकदम्बकमेव घटस्य ध्वंसः । तस्य घटध्वंसाऽभिन्नत्वादिति भावः । स्वरूपेति । 'स्तम्भो न कुम्भः' इत्यत्र कुम्भस्वरूपात् स्तम्भस्वरूपस्य पार्थक्यमेवाऽन्योन्याभावः । भेदप्रतियोगी भेदाधिकरणं वा स्तम्भ एवेति । अत्यन्ताभावमाह-कालेति । कालत्रयापेक्षी यस्तादात्म्यपरिणामः, तस्य निवृत्तिरेवाऽत्यन्ताभाव इत्यर्थः । यथा चेतने अचेत.. नत्वं नास्तीत्यत्यन्ताभावः, कालत्रयेऽपि चेतने नाऽचेतनतादात्म्यमित्यत एव संघटते । एवं कालत्रयेऽपि अचेतने नैव चैतन्यं कदाचिदपि सम्भवतीत्यतोऽचेतने