________________
तादात्म्यसम्बन्धेतरसम्बन्धरूपो यः कोऽपि भवति, तदा प्रतियोगिता सा अत्यन्ताभावनिरूपिता भवति । यदा च स सम्बन्धः तादात्म्य, तदा सा प्रतियोगिता अन्योन्याभावनिरूपिता भवति । 'भूतले घटो नास्ति' 'घटाभाववद्भूतलम्' इत्यादिकोऽत्यन्ताभावः । 'घटो न पट' इत्यादिकश्चाऽन्योन्याभावः ॥ मीमांसकाः शक्ति सादृश्यादिकं पदार्थान्तरं यथा मन्यन्ते, न तथा नैयायिकादय इति ॥
नैयायिकमतं खण्डयितुमाहाधुना
तन्न । यथायथं यथोक्तेष्वन्तर्भावात् । किश्चाऽवयवाऽवयविनोः गुणगुणिनोः क्रियाक्रियावतोश्च भेदाभेद एव सम्बन्धः । अभावश्चाधिकरणात्मक एवेति ॥ . तन्नेति । यदुक्तमधुना नैयायिकैस्तन्न विचारसहम् । द्रव्यपदार्थस्याऽस्मदभिमतद्रव्य एव समावेशात् । अस्मदभिमतद्रव्यापेक्षया तुच्छरूपत्वाच्च । गुणकर्मसामान्यविशेषेषु गुणस्य गुणे, शेषाणां च पर्यायेष्वेव समावेशः । तदेवाह. यथायथमिति । किञ्चेति । सम्बन्धोऽपि समवायो न युक्तिसहः । स हि . एकान्तेन भिन्नानामेव गुणगुण्यादीनां सम्बन्धः । गुणगुण्यादीनामेकान्तभेदश्च न युक्तिसहः । गुणस्य गुणिन एकान्तभिन्नत्वे यथा घटस्य रक्तत्वं तथा तदेव रक्तत्वं पटस्यापि कथं न स्यादित्यापत्तेः । न च घटसमवाययोगाद् घटस्यैव सत. न तु पटस्येति वाच्यम् । समवायस्य त्वन्मते नित्यत्वादेकत्वाच्च यथा - रक्तत्वे घटसमवायस्य योगः सम्भवति, तथैव पटसमवायस्यापि संभवत्येवेति । किञ्च गुणस्य गुणिना सहै कान्तेनाऽभेदे सति यथा धटपदार्थः 'घट' शब्देनाभिधीयते, तथा 'रक्त' शब्देनापि कथं नाभिधीयेत ? । 'रक्तो घटः' इत्यकथित्वा 'रक्त' इत्येव व्यवहारः कथं न प्रवर्तते ? । 'रक्त'पदमपि कुम्भादिवद घटस्य पर्याय पदं कथं न ? । अतो ज्ञायते यद्-गुणगुण्यादीनां न समवायो न वाऽभेदः, अपि तु भेदाभेद सम्बन्ध एव न्याय्य इति । ननु 'प्रत्येकं यो भवेदोषो, दृयोर्भावे कथं न सः' इत्युक्तेरत्र भेदपक्षे अभेदपक्षे च ये दोषास्ते समेऽपि