________________
समवायेन वृत्तिमत् चापि । तच्च ( सामान्यं) द्रव्ये गुणे कर्मणि चेति त्रिष्वेव वर्तते । सामान्यादिषु तत्कल्पने तु जातिबाधकप्रसङ्गः । जातिबाधकाश्च
व्यक्तेरभेदस्तुल्यत्वं, सङ्करोऽथाऽनवस्थितिः ।
8
रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः ||" इति । विस्तरापेक्षिणा सिद्धान्तमुक्तावल्यादयोऽवलोकनीयाः । परं सत्तेति । सत्ता महा सामान्यं, तच्च .. परमेव । द्रव्यत्वं गुणत्वं कर्मत्वं चाडवान्तरसामान्यं तच्च परं अपरं चापि । तत्र सत्तापेक्षयाऽपरत्वं घटत्वाद्यपेक्षया परत्वं च । घटत्वादिकं तु अपरसामान्यम् । नित्यद्रव्येति । नित्यद्रव्याणि परमाण्वाकाश-काल- दिगात्म-मनांसि । तेषु वर्त्तमानास्तेषां च व्यावर्त्तका विशेषाः । यथा - अयं घटएतस्माद् घटाद् भिन्नः, भिन्नावयवारब्धत्वात्, तथा परमाण्वादिषु नाऽवयवाः सन्ति, नित्यैकरूपत्वात्तेषाम् । तर्हि कस्तेषां भेदकः ? अत आह-विशेषाः । यथा - अयं परमाणुः, एतस्मात् परमाणोर्भिन्नः, भिन्नविशेषात् । ते चाऽनन्ताः परमाणूनामनन्तत्वादिति । freeम्बन्ध इति । अवयवावयविनोः, गुणगुणिनोः, क्रियाक्रियावतोः, जातिव्यक्त्योर्निःयद्रव्यविशेषयोश्च यः सम्बन्धः स समवाय इत्यर्थः । स चायुतसिद्धवृत्तिः । यौ कदाचिदप्यसम्बद्धौ न वर्त्तेते तौ अयुतसिद्धौ,' यथा - घटस्तनिष्ठगुणाश्च कपालद्वयं घटव, घटस्तन्निष्ठा क्रिया च, घटो घटत्वं च, परमाणु विशेषाचेति । चतुर्णामभावानां नामग्राहं लक्षणान्युपदर्शयति - तत्रेति । यस्य आदिर्न विद्यते, अन्तश्चाऽस्ति स प्रागभाव इत्यर्थः । स च 'इह घटो भवियती' व्याकारः । यस्य त्वादिरस्ति अन्तश्च नास्ति स ध्वंसः । 'घटोध्वस्त' इत्याकारकः । तादात्म्यभिन्नेति । अत्रेदमाकूतम् - यस्याभावो गृह्यते सोऽभावस्य प्रतियोगी । प्रतियोगिनि प्रतियोगिता वर्तते । सा प्रतियोगिता अभावनिरूपिता भवतीत्यभावः प्रतियोगिताया निरूपकः, अभाव - प्रतियोगितयोश्व निरूप्यनिरूपकभावः सम्बन्धः । सा च प्रतियोगिता प्रतियोगिस्वरूपपदार्थादिनिष्टधर्मेण सम्बन्धेन च अवच्छिन्ना - विशिष्टा भवति । अतश्च सा प्रतियोगिता तादृशधर्मावच्छिन्ना तादृशसम्बन्वावच्छिन्ना चोच्यते । स च सम्बन्धो यदा