________________
9
परे तु द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्त पदार्थाः । तत्र द्रव्यगुणौ वक्ष्येते । उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनभेदात् कर्म पञ्चधा । नित्यमनेकसमवेतं सामान्यं द्रव्यगुणकर्मवृत्ति, परमपरं चेति तद् द्विधा । परं सत्ता, अपरं द्रव्यत्वादि । नित्यद्रव्यवृत्तयो व्यावर्त्तका विशेषा अनन्ताः । नित्यसम्बन्धः समवायः, एक एव अयुत सिद्धवृत्तिः । अभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्च । तत्राऽनादिः सान्तः प्रागभावः । सादिरनन्तो ध्वंसः । तादात्म्यभिन्नसम्बन्धावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । तादात्म्यसम्बन्धावचिछेप्रतियोगिताकोऽन्योन्याभाव इति ॥
1
परेत्विति । अयमत्राशयः - जगदिदं द्रव्यात्मकं द्रव्याणि च नवाग्रे वक्ष्यन्ते । तानि च द्रव्याणि गुणं विना क्रियां विना च नैव द्रव्यत्वं भजन्तीति गुण-कर्मकल्पना क्रियते । समानजातीयेषु द्रव्येषु याऽनुगतप्रतीति 'रयं घटोऽयं घट' इत्याद्यात्मिका ं भवति,, सां न निराधारा भवितुमर्हतीति तदर्थं सामान्यं कल्प्यते । अनित्यपदार्थानां परस्परं व्यावर्त्तकाः स्वीया अवयवा एव, नित्यानां • तु व्यावृत्तिः परस्परं कथं स्यात् : नित्यत्वेन तुल्यत्वात् । अतस्तदर्थं विशेषपदार्थो मन्यते । द्रव्येषु च गुणकर्मसामान्यविशेषा स्तिष्ठन्ति, ते च न संसर्गेण विना स्थातुं तत्र शक्ता इति समवायनामा सम्बन्धात्मकः पदार्थः स्वीक्रियते । या च भवति ‘घटो नास्ती’ त्याद्याकारा प्रतीतिः, सा नैव निर्मूलेति तन्मूलरूपोऽभावनामा पदार्थः स्वतन्त्रोऽभिप्रीयत इति नैयायिकानां सम्मतम् || तेषां मते पदार्थानां लक्षणं स्वरूपं चाह -तत्रेति । उत्क्षेपणेति । कर्म चलनस्वरूपम् । तत्रोत्क्षेपणं शरीरादेरूर्ध्वदेशसंयोगहेतुः । अधोदेशसंयोग हेतुत्वपक्षेपणम् । शरीरस्य सन्निकृष्टसंयोगहेतुराकुञ्चनम् । प्रसारणं च ततो विपरीतं, विप्रकृष्टसंयोग हेतुरित्यर्थः । एतत्कर्मचतुष्टयं मुक्त्वा गमन - रेचन - स्यन्दनादिबहुप्रकारं कर्म गमनम् । नित्येति । वस्तूनामनुगतै काकारप्रतीतिनियामकं सामान्यं इत्यर्थः । तल्लक्षणं तु नित्यत्वे सति अनेकसमवेतत्वम् । यथा-घटत्वं नित्यं, घटसमूहे