________________
¿
S
भावः, भव्यस्वभावः, अभव्यस्वभावः परमस्वभावः । एत एकादश स्वभावाः सामान्यस्वभावाः । विशेषस्वभावा अपि चेतना - ऽचेतन - मूर्त्ता - मूर्ते - प्रदेशा नेकप्रदेश - विभाव - स्वभाव - शुद्धाशुद्धोपचरितस्वभावभेदाद्दश । तत्र चेतन - मूर्त-विभावा -ऽशुद्धोपचरित -स्वभावान् पञ्चैतान् विशेषस्वभावभेदान् विहाय धर्माधर्माssकाशानां प्रत्येकं षोडश स्वभावाः । तानेव पञ्च बहुप्रदेशस्वभावं -च त्यक्त्वा कालस्य पञ्चदश । जीवे पुद्गले च सर्वेऽपि - एकविंशतिरपि स्वभावाः सन्ति । अचेतनपुद्गलसंयोगाज्जं वे ऽचेतनत्वादिस्वभावाः, चेतनद्रव्य संगमाच्च पुद्गले चेतनत्वादिस्वभावा अपि सङ्गच्छन्ते इति नोद्भावनीयो विरोध इति ।। अथ पर्यायं लक्षयति
उभयाश्रिताः पर्यायाः ॥ ५ ॥
द्रव्य - गुणोभयाश्रितत्वं पर्यायत्वमित्यर्थः । वस्तुतस्तु गुणविकारा एव पर्यायास्ते च वृद्धिहानिभ्यां षट् षड् इति द्वादशधा । तद्यथा - अनन्तभागवृद्धिः, असङ्ख्यातभागवृद्धिः, सङ्ख्यातभागवृद्धिः, अनन्तगुणवृद्धिः, असङ्ख्यातगुणवृद्धिः, सङ्ख्यातगुणवृद्धिः । हानिश्व अनन्तभागहानिः, असङ्ख्यातभागहानिः, सङ्ख्यातभागहानिः, अनन्तगुणहानि:, असङ्ख्यातगुणहानिः, सङ्ख्यातगुणहानिः । वृद्धिहनिश्च पर्यायाणां षट्पट्कारा यथा स्यात्तथाऽन्यतोऽवसेयम् । सामान्यतः पर्याया द्विधा - स्वभावपर्यायाः, विभावपर्यायाश्च । यस्य यः स्वभावस्तद्रूपेण प्रतिक्षणं भवनं तस्य स्वभावपर्याय: । अगुरुलघुद्रव्यविकाराः स्वभावपर्याया इति - यावत् । अगुरुद्रव्यं यथा सिद्धिक्षेत्रं तच्च स्थिरस्वभावं प्रतिक्षणं तथाभावेनैव परिणमद्वर्त्तते, न कदाचिदप्यन्यथा - अस्थिरं भवति, अतः स तस्य स्वभावपर्यायः । · स्वभावादन्यथाभवनं - स्वभावं हित्वा अन्यरूपेण परावर्त्तनं विभावपर्यायः । यथा, नरनारका दि चतुर्गतयो योनयो वा चतुरशीतिलक्षसङ्ख्याकाः ॥
सप्तपदार्थवादिनां नैयायिकानां षट्पदार्थवादिनां वैशेषिकाणां च मतं खण्डयितुं तन्मतं सविस्तर मुपन्यस्यति -