________________
षोडस । तत्र चेतनद्रव्ये (जीवद्रव्ये) अस्तित्व, वस्तुत्व, द्रव्यत्व, प्रमेयत्व, अगुरुलघुत्व, प्रदेशत्व, चेतनवा,ऽमूर्त्तत्वरूपा अष्टौ सामान्यगुणाः; ज्ञान, दर्शन, सुख, वीर्य, चेतनत्व, अमूर्तरूपा विशेषगुणाः षट् च । इदमत्रावधेयं, यद्यपि प्रदेशत्वं असङ्ख्यप्रदेशानुगतत्वेन जातिः, तथापि जैननये पदार्थानां सामान्यविशेषात्मकत्वेन जाति-धर्म-गुण इत्यादीनां पर्यायशब्दत्वमेवेत्यवधार्यम् । तथा च जीवद्रव्यस्याऽसङ्खयेयप्रदेशमयत्वेन प्रदेशत्वमपि तनिष्ठं, तच्च जातिर्वा गुणो वा धर्मोवेत्यनान्तरम् । अतो नात्र प्रदेशत्वस्य गुणत्वाभावो जीवद्रव्ये वा तदभावः शङ्कयः। एवमन्यत्रापि स्वयमेव विचार्यमिति । अचेतनद्रव्ये च जीवेतरस्मिन् सामान्यगुणाः चेतनवाऽमूर्त्तत्वरहिता अष्टौ पुद्गलस्य, चेतनत्व-मूतत्वरहिता अष्टौ च धर्मास्तिकाय-अधर्मास्तिकाय-आकाशास्तिकाय-कालेषु । विशेषगुणा अपि पुद्गलद्रव्ये स्पर्श, रस, गन्ध, वर्ण, अचेतनत्व, मूर्त्तत्वरूपाः षट् । धर्मास्तिकाये गतिहेतुत्व, अचेतनत्व, अमूर्त्तत्वरूपाः त्रयः। अधर्मास्तिकाये स्थितिहेतुत्व, अचेतनत्व, अमूर्त्तत्वरूपास्त्रयः। आकाशा स्तिकाये अवगाहहेतुत्व, अचेतनत्व, 'अमूर्तत्वरूपास्त्रयः। कालेऽपि वर्तना हेतुत्व, अचेतनत्वा ऽमूर्त्तत्वरूपास्त्रयः ।
. अत्र चेतनत्वं, अचेतनत्वं, मूतत्वं, अमूर्त्तत्वं चेतिगुण चतुष्कं सामान्यगुणेषु यथा तथा विशेषगुणेष्वपि गण्यते । अनुवृत्तिप्रत्ययहेतुत्वात् ते सामान्याः, व्यावृत्तिप्रत्ययहेतुत्वाच्च विशेषाः । तत्र चेतनत्वं सकलजीववृत्तित्वात् सामान्यं, जीवेतराऽवृत्तित्वाद्विशेषः । अचेतनत्वं सर्वाऽजीववृत्तित्वात् सामान्यं, जीवाऽवृत्तिवाद्विशेषः । मूर्तत्वं सकलपुद्गलवृत्तित्वात् सामान्यं, पुद्गलेतराऽवृत्तित्वाद्विशेषः । अमूर्त्तत्वं (पुद्गले तर) अमूर्त द्रव्यमात्रवृत्तित्वात् सामान्यं पुद्गलाऽवृत्तित्वाद्विशेषः । ____ जीवादिद्रव्याणां यथा गुणाः पर्यायाश्च, तथा कतिचित् स्वभावा अपि वर्तन्ते, परं तेषां गुणपर्यायेष्वेवान्तर्भवनान्न पृथगुपादानम् । तथापि शिष्यमतिवैशयाय ते उपदयन्तेऽन्यतोऽत्र- 'अस्तिस्वभावः, नास्तिस्वभावः, नित्यस्वभावः, अनित्यस्वभावः, एकस्वभावः, अनेक स्वभावः, भेदस्वभावः, अभेदस्व